Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि श्री दुर्गादेवि नमोऽस्तु ते ॥ १ ॥
वसुदेवसुते कालि वासुदेवसहोदरि ।
वसुन्धरश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २ ॥
योगनिद्रे महानिद्रे योगमाये महेश्वरि ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३ ॥
शङ्खचक्रगदापाणे शार्ङ्गाद्यायुधबाहवे ।
पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४ ॥
ऋग्यजुः सामाथर्वाणश्चतुः सामन्तलोकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५ ॥
वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि ।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६ ॥
सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि ।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७ ॥
अष्टबाहु महासत्त्वे अष्टमी नवमी प्रिये ।
अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८ ॥
दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥ ९ ॥
इति श्री दुर्गाष्टकम् ।
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Can you please give the source of this stotram?