Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने ।
शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम् ॥ १ ॥
भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गलम् ॥ २ ॥
शूरपद्मादिदैतेयतमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गलम् ॥ ३ ॥
वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम् ॥ ४ ॥
कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गलम् ॥ ५ ॥
मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गलम् ॥ ६ ॥
कनकाम्बरसंशोभिकटये कलिहारिणे ।
कमलापतिवन्द्याय कार्तिकेयाय मङ्गलम् ॥ ७ ॥
शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गलम् ॥ ८ ॥
मङ्गलाष्टकमेतद्ये महासेनस्य मानवाः ।
पठन्ती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम् ॥ ९ ॥
इति श्री सुब्रह्मण्य मङ्गलाष्टकम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.