Sri Datta Navaratna Malika – श्री दत्त नवरत्नमालिका


वित्ततर्षरहितैर्मनुजानां
सत्तमैरनिशसेव्यपदाब्जम् ।
चित्तशुद्धिमभिलिप्सुरहं द्राक्
दत्तदेवमनिशं कलयामि ॥ १ ॥

कार्तवीर्यगुरुमत्रितनूजं
पादनम्रशिर आहितहस्तम् ।
श्रीदमुख्यहरिदीश्वरपूज्यं
दत्तदेवमनिशं कलयामि ॥ २ ॥

नाकनायकसमर्चितपादं
पाकचन्द्रधर मौल्यवतारम् ।
कोकबन्धुसमवेक्ष्यमहस्कं
दत्तदेवमनिशं कलयामि ॥ ३ ॥

मूकपङ्गु बधिरादिमलोकान्
लोकतस्तदितरान्विदधानम् ।
एकवस्तुपरिबोधयितारं
दत्तदेवमनिशं कलयामि ॥ ४ ॥

योगदानत इहैव हरन्तं
रोगमाशु नमतां भवसञ्ज्ञम् ।
रागमोहमुख वैरिनिवृत्त्यै
दत्तदेवमनिशं कलयामि ॥ ५ ॥

जामदग्न्यमुनये त्रिपुरायाः
ज्ञानखण्डमवबोधितवन्तम् ।
जामिताविदलनं नतपङ्क्तेः
दत्तदेवमनिशं कलयामि ॥ ६ ॥

तारकं भवमहाजलराशेः
पूरकं पदनतेप्सितराशेः ।
वारकं कलिमुखोत्थभयानां
दत्तदेवमनिशं कलयामि ॥ ७ ॥

सत्यवित्सुखनिरन्तरसक्तं
स्वान्तमानतजनं विदधानम् ।
श्रान्तलोकततितोषणचन्द्रं
दत्तदेवमनिशं कलयामि ॥ ८ ॥

रक्षणाय जगतो धृतदेहं
शिक्षणाय च दुरध्वगतानाम् ।
ऋक्षराजपरिभाविनिटालं
दत्तदेवमनिशं कलयामि ॥ ९ ॥

नवरत्नमालिकेयं
ग्रथिता भक्तेन केनचिद्यतिना ।
गुरुवरचरणाब्जयुगे
तन्मोदायार्पिता चिरं जीयात् ॥ १० ॥

इति श्रीजगद्गुरु श्रीचन्द्रशेखरभारतीस्वामिपादैः विरचिता श्री दत्त नवरत्नमालिका ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed