Chitta Sthirikara Sri Datta Stotram – श्री दत्त स्तोत्रम् (चित्तस्थिरीकर)


अनसूयात्रिसम्भूत दत्तात्रेय महामते ।
सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु ॥ १ ॥

शरणागतदीनार्ततारकाखिलकारक ।
सर्वपालक देव त्वं मम चित्तं स्थिरीकुरु ॥ २ ॥

सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज ।
सर्वसङ्कटहारिंस्त्वं मम चित्तं स्थिरीकुरु ॥ ३ ॥

स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः ।
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु ॥ ४ ॥

सर्वपापक्षयकरस्तापदैन्यनिवारणः ।
योऽभीष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ॥ ५ ॥

य एतत्प्रयतः श्लोकपञ्चकं प्रपठेत्सुधीः ।
स्थिरचित्तः स भगवत् कृपापात्रं भविष्यति ॥ ६ ॥

इति श्रीपरमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वती स्वामी कृतं श्री दत्त स्तोत्रम् ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed