Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं नमो भगवते दत्तात्रेयाय अवधूताय दिगम्बराय विधिहरिहराय आदितत्त्वाय आदिशक्तये ॥ १ ॥
त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥ २ ॥
त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशः विश्वनाथः त्वं विश्वनाटकसूत्रधारः त्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥ ३ ॥
त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दः त्वं परमानन्दः त्वं सच्चिदानन्दः त्वमेव चैतन्यः चैतन्यदत्तात्रेयः ओं चैतन्यदत्तात्रेयाय नमः ॥ ४ ॥
त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकः दयाघनः भजनप्रियः त्वं पतितपावनः करुणाकरः भवभयहरः ॥ ५ ॥
त्वं भक्तकारणसम्भूतः अत्रिसुतः अनसूयात्मजः त्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासी श्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानः अक्कलकोटनिवासी श्रीस्वामीसमर्थः त्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वती त्वं श्रीसद्गुरु माधवसरस्वती ॥ ६ ॥
त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् । दीने आर्ते मयि दयां कुरु तव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः । हे भगवन् वरददत्तात्रेय मामुद्धर मामुद्धर मामुद्धर इति प्रार्थयामि । ओं द्रां दत्तात्रेयाय नमः ॥ ७ ॥
ओं दिगम्बराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥
इति श्री दत्त अथर्वशीर्षम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక: శరన్నవరాత్రుల సందర్భంగా "శ్రీ లలితా స్తోత్రనిధి" మరియు "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకములు కొనుగోలుకు అందుబాటులో ఉన్నాయి.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.