Sri Dakshina Kali Kavacham 2 – श्री दक्षिणकाली कवचम् २


कैलासशिखरारूढं भैरवं चन्द्रशेखरम् ।
वक्षःस्थले समासीना भैरवी परिपृच्छति ॥ १ ॥

श्रीभैरव्युवाच ।
देवेश परमेशान लोकानुग्रहकारकः ।
कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥ २ ॥

यदि मे महती प्रीतिस्तवास्ति कुल भैरव ।
कवचं कालिका देव्याः कथयस्वानुकम्पया ॥ ३ ॥

श्रीभैरव उवाच ।
अप्रकाश्य मिदं देवि नरलोके विशेषतः ।
लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥ ४ ॥

श्रीभैरव्युवाच ।
सेवका बहवो नाथ कुलधर्म परायणाः ।
यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥ ५ ॥

तेषां प्रयोग सिद्ध्यर्थं स्वरक्षार्थं विशेषतः ।
पृच्छामि बहुशो देव कथयस्व दयानिधे ॥ ६ ॥

श्रीभैरव उवाच ।
कथयामि शृणु प्राज्ञे कालिका कवचं परम् ।
गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥ ७ ॥

अस्य श्री दक्षिणकालिका कवचस्य भैरव ऋषिः उष्णिक् छन्दः अद्वैतरूपिणी श्री दक्षिणकालिका देवता ह्रीं बीजं हूं शाक्तिः क्रीं कीलकं सर्वार्थ साधन पुरःसर मन्त्र सिद्ध्यर्थे पाठे विनियोगः ।

अथ कवचम् ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ।
वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥ ८ ॥

परमेशः पुरः पातु परापरगुरुस्तथा ।
परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥ ९ ॥

महादेवी सदा पातु महादेवः सदाऽवतु ।
त्रिपुरो भैरवः पातु दिव्यरूपधरः सदा ॥ १० ॥

ब्रह्मानन्दः सदा पातु पूर्णदेवः सदाऽवतु ।
चलश्चित्तः सदा पातु चेलाञ्चलश्च पातु माम् ॥ ११ ॥

कुमारः क्रोधनश्चैव वरदः स्मरदीपनः ।
मायामायावती चैव सिद्धौघाः पातु सर्वदा ॥ १२ ॥

विमलो कुशलश्चैव भीमसेनः सुधाकरः ।
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥ १३ ॥

मूलदेवो रन्तिदेवो विघ्नेश्वर हुताशानः ।
सन्तोषः समयानन्दः पातु मां मनवा सदा ॥ १४ ॥

सर्वेऽप्यानन्दनाथान्तः अम्बां तां मातरः क्रमात् ।
गणनाथः सदा पातु भैरवः पातु मां सदा ॥ १५ ॥

वटुको नः सदा पातु दुर्गा मां परिरक्षतु ।
शिरसः पादपर्यन्तं पातु मां घोरदक्षिणा ॥ १६ ॥

तथा शिरसि मां काली हृदि मूले च रक्षतु ।
सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥ १७ ॥

क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदाऽवतु ।
ह्रीं ह्रीं पातु सदाधारे दक्षिणे कालिके हृदि ॥ १८ ॥

क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदाऽवतु ।
ह्रीं ह्रीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥ १९ ॥

पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु ।
षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥ २० ॥

मन्त्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः ।
चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥ २१ ॥

उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके ।
नीला घना बलाका च तथा परत्रिकोणके ॥ २२ ॥

मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके ।
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥ २३ ॥

बहिः षट्कोणके पान्तु विप्रचित्ता तथा प्रिये ।
सर्वाः श्यामाः खड्गधरा वामहस्तेन तर्जनीः ॥ २४ ॥

ब्राह्मी पूर्वदले पातु नारायणी तथाग्निके ।
माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥ २५ ॥

कौमारी पश्चिमे पातु वायव्ये चापराजिता ।
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ॥ २६ ॥

ऐं ह्रीं असिताङ्गः पूर्वे भैरवः परिरक्षतु ।
ऐं ह्रीं रुरुश्चाजिनकोणे ऐं ह्रीं चण्डस्तु दक्षिणे ॥ २७ ॥

ऐं ह्रीं क्रोधो नैरृतेऽव्यात् ऐं ह्रीं उन्मत्तकस्तथा ।
पश्चिमे पातु ऐं ह्रीं मां कपाली वायु कोणके ॥ २८ ॥

ऐं ह्रीं भीषणाख्यश्च उत्तरेऽवतु भैरवः ।
ऐं ह्रीं संहार ऐशान्यां मातृणामङ्कगा शिवाः ॥ २९ ॥

ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् ।
ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदाऽवतु ॥ ३० ॥

ऐं वह्नि वेतालो वटुको दक्षिणे मां सदाऽवतु ।
ऐं अग्निजिह्ववटुकोऽव्यात् नैरृत्यां पश्चिमे तथा ॥ ३१ ॥

ऐं कालवटुकः पातु ऐं करालवटुकस्तथा ।
वायव्यां ऐं एकः पातु उत्तरे वटुकोऽवतु ॥ ३२ ॥

ऐं भीमवटुकः पातु ऐशान्यां दिशि मां सदा ।
ऐं ह्रीं ह्रीं हूं फट् स्वाहान्ताश्चतुः षष्टि मातरः ॥ ३३ ॥

ऊर्ध्वाधो दक्षवामार्गे पृष्ठदेशे तु पातु माम् ।
ऐं हूं सिंहव्याघ्रमुखी पूर्वे मां परिरक्षतु ॥ ३४ ॥

ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु ।
ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥ ३५ ॥

ऐं चौं चौं गजराजमुखी नैरृत्यां मां सदाऽवतु ।
ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥ ३६ ॥

ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु ।
ऐं हां हां ह्रस्वदीर्घमुखी लम्बोदर महोदरी ॥ ३७ ॥

पातुमामुत्तरे कोणे ऐं ह्रीं ह्रीं शिवकोणके ।
ह्रस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥ ३८ ॥

एताः श्मशानवासिन्यो भीषणा विकृताननाः ।
पान्तु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥ ३९ ॥

इन्द्रो मां पूर्वतो रक्षेदाग्नेय्यामग्निदेवता ।
दक्षे यमः सदा पातु नैरृत्यां नैरृतिश्च माम् ॥ ४० ॥

वरुणोऽवतु मां पश्चात् वायुर्मां वायवेऽवतु ।
कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥ ४१ ॥

ऊर्ध्वं ब्रह्मा सदा पातु अधश्चानन्तदेवता ।
पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्च माम् ॥ ४२ ॥

कालिकाऽवातु शिरसि हृदये कालिकाऽवतु ।
आधारे कालिका पातु पादयोः कालिकाऽवतु ॥ ४३ ॥

दिक्षु मां कालिका पातु विदिक्षु कालिकाऽवतु ।
ऊर्ध्वं मे कालिका पातु अधश्च कालिकाऽवतु ॥ ४४ ॥

चर्मासृङ्मांसमेदाऽस्थि मज्जा शुक्राणि मेऽवतु ।
इन्द्रियाणि मनश्चैव देहं सिद्धिं च मेऽवतु ॥ ४५ ॥

आकेशात् पादपर्यन्तं कालिका मे सदाऽवतु ।
वियति कालिका पातु पथि मां कालिकाऽवतु ॥ ४६ ॥

शयने कालिका पातु सर्वकार्येषु कालिका ।
पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥ ४७ ॥

यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया ।
इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥ ४८ ॥

तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् ।
तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥ ४९ ॥

सर्वपापक्षयं यान्ति वाञ्छा सर्वत्र सिद्ध्यति ।
नाम्नाः शतगुणं स्तोत्रं ध्यानम् तस्माच्छताधिकम् ॥ ५० ॥

तस्मात् शताधिको मन्त्रः कवचं तच्छताधिकम् ।
शुचिः समाहितो भूत्वा भक्ति श्रद्धा समन्वितः ॥ ५१ ॥

संस्थाप्य वामभागे तु शक्तिं स्वामि परायणाम् ।
रक्तवस्त्रपरिधानां शिवमन्त्रधरां शुभाम् ॥ ५२ ॥

या शक्तिः सा महादेवी हररूपश्च साधकः ।
अन्योऽन्य चिन्तयेद्देवीं देवत्वमुपजायते ॥ ५३ ॥

शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा ।
भोगैश्च मधुपर्काद्यैस्ताम्बूलैश्च सुवासितैः ॥ ५४ ॥

ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये ।
तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥ ५५ ॥

इदं रहस्यं परमं परं स्वस्त्ययनं महत् ।
या सकृत्तु पठेद्देवि कवचं देवदुर्लभम् ॥ ५६ ॥

सर्वयज्ञफलं तस्य भवेदेव न संशयः ।
सङ्ग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥ ५७ ॥

नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ।
तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥ ५८ ॥

गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् ।
दीर्घायुः कामभोगीशो गुरुभक्तः सदा भवेत् ॥ ५९ ॥

अहो कवच माहात्म्यं पठ्यमानस्य नित्यशः ।
विनापि नययोगेन योगीश समतां व्रजेत् ॥ ६० ॥

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
न शक्नोमि प्रभावं तु कवचस्यास्य वर्णितम् ॥ ६१ ॥

इति श्री दक्षिणकालिका कवचम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed