Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
भगवन् भाषिताशेषसिद्धान्त करुणानिधे ।
बालात्रिपुरसुन्दर्याः मन्त्रनामसहस्रकम् ॥ १ ॥
श्रुत्वा धारयितुं देव ममेच्छावर्ततेऽधुना ।
कृपया केवलं नाथ तन्ममाख्यातुमर्हसि ॥ २ ॥
ईश्वर उवाच ।
मन्त्रनामसहस्रं ते कथयामि वरानने ।
गोपनीयं प्रयत्नेन शृणु तत्त्वं महेश्वरि ॥ ३ ॥
अस्य श्रीबालात्रिपुरसुन्दरी दिव्यसहस्रनाम स्तोत्रमहामन्त्रस्य ईश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे सहस्रनामस्तोत्र पारायणे विनियोगः ॥
करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
ध्यानम् ।
ऐङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गोज्ज्वलाम् ।
वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां
तां बालां त्रिपुरां भजे त्रिनयनां षट्चक्रसञ्चारिणीम् ॥
लमित्यादि पञ्चपूजां कुर्यात् ॥
अथ स्तोत्रम् –
ओं सुभगा सुन्दरी सौम्या सुषुम्णा सुखदायिनी ।
मनोज्ञा सुमना रम्या शोभना ललिता शिवा ॥ १ ॥
कान्ता कान्तिमती कान्तिः कामदा कमलालया ।
कल्याणी कमला हृद्या पेशला हृदयङ्गमा ॥ २ ॥
सुभद्राख्यातिरमणी सर्वा साध्वी सुमङ्गला ।
रामा भव्यवती भव्या कमनीयाऽतिकोमला ॥ ३ ॥
शोभाभिरामा रमणी रमणीया रतिप्रिया ।
मनोन्मनी महामाया मातङ्गी मदिराप्रिया ॥ ४ ॥
महालक्ष्मीर्महाशक्तिर्महाविद्यास्वरूपिणी ।
महेश्वरी महानन्दा महानन्दविधायिनी ॥ ५ ॥
मानिनी माधवी माध्वी मदरूपा मदोत्कटा ।
आनन्दकन्दा विजया विश्वेशी विश्वरूपिणी ॥ ६ ॥
सुप्रभा कौमुदी शान्ता बिन्दुनादस्वरूपिणी ।
कामेश्वरी कामकला कामिनी कामवर्धिनी ॥ ७ ॥
भेरुण्डा चण्डिका चण्डी चामुण्डा मुण्डमालिनी ।
अणुरूपा महारूपा भूतेशी भुवनेश्वरी ॥ ८ ॥
चित्रा विचित्रा चित्राङ्गी हेमगर्भस्वरूपिणी ।
चैतन्यरूपिणी नित्या नित्यानित्यस्वरूपिणी ॥ ९ ॥
ह्रीङ्कारकुण्डली धात्री विधात्री भूतसम्प्लवा ।
उन्मादिनी महामारी सुप्रसन्ना सुरार्चिता ॥ १० ॥
परमानन्दनिष्यन्दा परमार्थस्वरूपिणी ।
योगीश्वरी योगमाता हंसिनी कलहंसिनी ॥ ११ ॥
कला कलावती रक्ता सुषुम्नावर्त्मशालिनी ।
विन्ध्याद्रिनिलया सूक्ष्मा हेमपद्मनिवासिनी ॥ १२ ॥
बाला सुरूपिणी माया वरेण्या वरदायिनी ।
विद्रुमाभा विशालाक्षी विशिष्टा विश्वनायिका ॥ १३ ॥
वीरेन्द्रवन्द्या विश्वात्मा विश्वा विश्वादिवर्धिनी ।
विश्वोत्पत्तिर्विश्वमाया विश्वाराध्या विकस्वरा ॥ १४ ॥
मदस्विन्ना मदोद्भिन्ना मानिनी मानवर्धिनी ।
मालिनी मोदिनी मान्या मदहस्ता मदालया ॥ १५ ॥
मदनिष्यन्दिनी माता मदिराक्षी मदालसा ।
मदात्मिका मदावासा मधुबिन्दुकृताधरा ॥ १६ ॥
मूलभूता महामूला मूलाधारस्वरूपिणी ।
सिन्दूररक्ता रक्ताक्षी त्रिनेत्रा त्रिगुणात्मिका ॥ १७ ॥
वशिनी वाशिनी वाणी वारुणी वारुणीप्रिया ।
अरुणा तरुणार्काभा भामिनी वह्निवासिनी ॥ १८ ॥
सिद्धा सिद्धेश्वरी सिद्धिः सिद्धाम्बा सिद्धमातृका ।
सिद्धार्थदायिनी विद्या सिद्धाढ्या सिद्धसम्मता ॥ १९ ॥
वाग्भवा वाक्प्रदा वन्द्या वाङ्मयी वादिनी परा ।
त्वरिता सत्वरा तुर्या त्वरयित्री त्वरात्मिका ॥ २० ॥
कमला कमलावासा सकला सर्वमङ्गला ।
भगोदरी भगक्लिन्ना भगिनी भगमालिनी ॥ २१ ॥
भगप्रदा भगानन्दा भगेशी भगनायिका ।
भगात्मिका भगावासा भगा भगनिपातिनी ॥ २२ ॥
भगावहा भगाराध्या भगाढ्या भगवाहिनी ।
भगनिष्यन्दिनी भर्गा भगाभा भगगर्भिणी ॥ २३ ॥
भगादिर्भगभोगादिः भगवेद्या भगोद्भवा ।
भगमाता भगकृता भगगुह्या भगेश्वरी ॥ २४ ॥
भगदेहा भगावासा भगोद्भेदा भगालसा ।
भगविद्या भगक्लिन्ना भगलिङ्गा भगद्रवा ॥ २५ ॥
सकला निष्कला काली कराली कलभाषिणी ।
कमला हंसिनी काला करुणा करुणावती ॥ २६ ॥
भास्वरा भैरवी भासा भद्रकाली कुलाङ्गना ।
रसात्मिका रसावासा रसस्यन्दा रसावहा ॥ २७ ॥
कामनिष्यन्दिनी काम्या कामिनी कामदायिनी ।
विद्या विधात्री विविधा विश्वदा त्रिविधा विधा ॥ २८ ॥
सर्वाङ्गा सुन्दरी सौम्या लावण्या सरिदम्बुधिः ।
चतुराङ्गी चतुर्बाहुश्चतुरा चारुहासिनी ॥ २९ ॥
मन्त्रा मन्त्रमयी माता मणिपूरसमाश्रया ।
मन्त्रात्मिका मन्त्रमाता मन्त्रगम्या सुमन्त्रका ॥ ३० ॥
पुष्पबाणा पुष्पजैत्री पुष्पिणी पुष्पवर्धिनी ।
वज्रेश्वरी वज्रहस्ता पुराणी पुरवासिनी ॥ ३१ ॥
तारा च तरुणाकारा तरुणी ताररूपिणी ।
इक्षुचापा महापाशा शुभदा प्रियवादिनी ॥ ३२ ॥
सर्वगा सर्वजननी सर्वार्था सर्वपावनी ।
आत्मविद्या महाविद्या ब्रह्मविद्या विवस्वती ॥ ३३ ॥
शिवेश्वरी शिवाराध्या शिवनाथा शिवात्मिका ।
आत्मिका ज्ञाननिलया निर्भेदा निर्वृतिप्रदा ॥ ३४ ॥
निर्वाणरूपिणी पूर्णा नियमा निष्कला प्रभा ।
श्रीफला श्रीप्रदा शिष्या श्रीमयी शिवरूपिणी ॥ ३५ ॥
क्रूरा कुण्डलिनी कुब्जा कुटिला कुटिलालका ।
महोदया महारूपा मही माही कलामयी ॥ ३६ ॥
वशिनी सर्वजननी चित्रवासा विचित्रिका ।
सूर्यमण्डलमध्यस्था स्थिरा शङ्करवल्लभा ॥ ३७ ॥
सुरभिः सुमहः सूर्या सुषुम्णा सोमभूषणा ।
सुधाप्रदा सुधाधारा सुश्रीः सम्पत्तिरूपिणी ॥ ३८ ॥
अमृता सत्यसङ्कल्पा सत्या षड्ग्रन्थिभेदिनी ।
इच्छाशक्तिर्महाशक्तिः क्रियाशक्तिः प्रियङ्करी ॥ ३९ ॥
लीला लीलालयाऽऽनन्दा सूक्ष्मबोधस्वरूपिणी ।
सकला रसना सारा सारगम्या सरस्वती ॥ ४० ॥
परा परायणी पद्मा परनिष्ठा परापरा ।
श्रीमती श्रीकरी व्योम्नी शिवयोनिः शिवेक्षणा ॥ ४१ ॥
निरानन्दा निराख्येया निर्द्वन्द्वा निर्गुणात्मिका ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ॥ ४२ ॥
धृतिः स्मृतिः श्रुतिर्मेधा श्रद्धा पुष्टिः स्तुतिर्मतिः ।
अद्वयाऽऽनन्दसम्बोधा वरा सौभाग्यरूपिणी ॥ ४३ ॥
निरामया निराकारा जृम्भिणी स्तम्भिनी रतिः ।
बोधिका कमला रौद्री द्राविणी क्षोभिणी मतिः ॥ ४४ ॥
कुचेली कुचमध्यस्था मध्यकूट गति प्रिया ।
कुलोत्तीर्णा कुलवती बोधा वाग्वादिनी सती ॥ ४५ ॥
उमा प्रियव्रता लक्ष्मीर्वकुला कुलरूपिणी ।
विश्वात्मिका विश्वयोनिः विश्वासक्ता विनायका ॥ ४६ ॥
ध्यायिनी नादिनी तीर्था शाङ्करी मन्त्रसाक्षिणी ।
सन्मन्त्ररूपिणी हृष्टा शाङ्करी सुरशङ्करी ॥ ४७ ॥
सुन्दराङ्गी सुरावासा सुरवन्द्या सुरेश्वरी ।
सुवर्णा वर्णसत्कीर्तिः सवर्णा वर्णरूपिणी ॥ ४८ ॥
ललिताङ्गी वरिष्ठा श्रीरस्पन्दा स्पन्दरूपिणी ।
शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥ ४९ ॥
जयिनी विश्वजननी विश्वनिष्ठा विलासिनी ।
भ्रूमध्याऽखिलनिष्ठाद्या निर्गुणा गुणवर्धिनी ॥ ५० ॥
हृल्लेखा भुवनेशानी भवना भवनात्मिका ।
विभूतिर्भुतिदा भूतिः सम्भूतिर्भूतिकारिणी ॥ ५१ ॥
ईशानी शाश्वती शैवी शर्वाणी शर्मदायिनी ।
भवानी भावगा भावा भावना भावनात्मिका ॥ ५२ ॥
हृत्पद्मनिलया शूरा स्वरावृत्तिः स्वरात्मिका ।
सूक्ष्मरूपा परानन्दा स्वात्मस्था विश्वदा शिवा ॥ ५३ ॥
परिपूर्णा दयापूर्णा मदघूर्णितलोचना ।
शरण्या तरुणार्काभा मदा रक्ता मनस्विनी ॥ ५४ ॥
अनन्ताऽनन्तमहिमा नित्यतृप्ता निरञ्जना ।
अचिन्त्या शक्तिश्चिन्त्यार्था चिन्त्याऽचिन्त्यस्वरूपिणी ॥ ५५ ॥
जगन्मयी जगन्माता जगत्सारा जगद्भवा ।
आप्यायिनी परानन्दा कूटस्थाऽऽवासरूपिणी ॥ ५६ ॥
ज्ञानगम्या ज्ञानमूर्तिः ज्ञापिनी ज्ञानरूपिणी ।
खेचरी खेचरीमुद्रा खेचरीयोगरूपिणी ॥ ५७ ॥
अनाथनाथा निर्नाथा घोराऽघोरस्वरूपिणी ।
सुधाप्रदा सुधाधारा सुधारूपा सुधामयी ॥ ५८ ॥
दहरा दहराकाशा दहराकाशमध्यगा ।
माङ्गल्या मङ्गलकरी महामाङ्गल्यदेवता ॥ ५९ ॥
माङ्गल्यदायिनी मान्या सर्वमङ्गलदायिनी ।
स्वप्रकाशा महाभूषा भामिनी भवरूपिणी ॥ ६० ॥
कात्यायनी कलावासा पूर्णा कामा यशस्विनी ।
अर्थाऽवसाननिलया नारायणमनोहरा ॥ ६१ ॥
मोक्षमार्गविधानज्ञा विरिञ्चोत्पत्तिभूमिका ।
अनुत्तरा महाराध्या दुष्प्रापा दुरतिक्रमा ॥ ६२ ॥
शुद्धिदा कामदा सौम्या ज्ञानदा मानदायिनी ।
स्वधा स्वाहा सुधा मेधा मधुरा मधुमन्दिरा ॥ ६३ ॥
निर्वाणदायिनी श्रेष्ठा शर्मिष्ठा शारदार्चिता ।
सुवर्चला सुराराध्या शुद्धसत्त्वा सुरार्चिता ॥ ६४ ॥
स्तुतिः स्तुतिमयी स्तुत्या स्तुतिरूपा स्तुतिप्रिया ।
कामेश्वरी कामवती कामिनी कामरूपिणी ॥ ६५ ॥
आकाशगर्भा ह्रीङ्कारी कङ्काली कालरूपिणी ।
विष्णुपत्नी विशुद्धार्था विश्वरूपेशवन्दिता ॥ ६६ ॥
विश्ववेद्या महावीरा विश्वघ्नी विश्वरूपिणी ।
सुशीलाढ्या शैलवती शैलस्था शैलरूपिणी ॥ ६७ ॥
रुद्राणी चण्डखट्वाङ्गी डाकिनी साकिनी प्रभा ।
नित्या निर्वेदखट्वाङ्गी जननी जनरूपिणी ॥ ६८ ॥
तलोदरी जगत्सूत्री जगती ज्वलिनी ज्वली ।
साकिनी सारसंहृद्या सर्वोत्तीर्णा सदाशिवा ॥ ६९ ॥
स्फुरन्ती स्फुरिताकारा स्फूर्तिः स्फुरणरूपिणी ।
शिवदूती शिवा शिष्टा शिवज्ञा शिवरूपिणी ॥ ७० ॥
रागिणी रञ्जनी रम्या रजनी रजनीकरा ।
विश्वम्भरा विनीतेष्टा विधात्री विधिवल्लभा ॥ ७१ ॥
विद्योतिनी विचित्रार्था विश्वाद्या विविधाभिधा ।
विश्वाक्षरा सरसिका विश्वस्थाऽतिविचक्षणा ॥ ७२ ॥
ब्रह्मयोनिर्महायोनिः कर्मयोनिस्त्रयीतनुः ।
हाकिनी हारिणी सौम्या रोहिणी रोगनाशनी ॥ ७३ ॥
श्रीप्रदा श्रीर्श्रीधरा च श्रीकरा श्रीमतिः श्रिया ।
श्रीमाता श्रीकरी श्रेयः श्रेयसी च सुरेश्वरी ॥ ७४ ॥
कामेश्वरी कामवती कामगिर्यालयस्थिता ।
रुद्रात्मिका रुद्रमाता रुद्रगम्या रजस्वला ॥ ७५ ॥
अकारषोडशान्तःस्था भैरवाऽऽह्लादिनी परा ।
कृपादेहाऽरुणा नाथा सुधाबिन्दुसमाश्रिता ॥ ७६ ॥
काली कामकला कन्या पार्वती पररूपिणी ।
मायावती घोरमुखी वादिनी दीपिनी शिवा ॥ ७७ ॥
मकारा मातृचक्रेशी महासेना विमोहिनी ।
उत्सुकाऽनुत्सुका हृष्टा ह्रीङ्कारी चक्रनायिका ॥ ७८ ॥
रुद्रा भवानी चामुण्डी ह्रीङ्कारी सौख्यदायिनी ।
गरुडा गारुडी ज्येष्ठा सकला ब्रह्मचारिणी ॥ ७९ ॥
कृष्णाङ्गा वाहिनी कृष्णा खेचरी कमलाप्रिया ।
भद्रिणी रुद्रचामुण्डा ह्रीङ्कारी सौभगा ध्रुवा ॥ ८० ॥
गरुडी गारुडी ज्येष्ठा स्वर्गदा ब्रह्मवादिनी ।
पानानुरक्ता पानस्था भीमरूपा भयापहा ॥ ८१ ॥
रक्ता चण्डा सुरानन्दा त्रिकोणा पानदर्पिता ।
महोत्सुका क्रतुप्रीता कङ्काली कालदर्पिता ॥ ८२ ॥
सर्ववर्णा सुवर्णाभा परामृतमहार्णवा ।
योग्यार्णवा नागबुद्धिर्वीरपाना नवात्मिका ॥ ८३ ॥
द्वादशान्तसरोजस्था निर्वाणसुखदायिनी ।
आदिसत्त्वा ध्यानसत्त्वा श्रीकण्ठस्वान्तमोहिनी ॥ ८४ ॥
परा घोरा करालाक्षी स्वमूर्तिर्मेरुनायिका ।
आकाशलिङ्गसम्भूता परामृतरसात्मिका ॥ ८५ ॥
शाङ्करी शाश्वती रुद्रा कपाला कुलदीपिका ।
विद्यातनुर्मन्त्रतनुश्चण्डा मुण्डा सुदर्पिता ॥ ८६ ॥
वागीश्वरी योगमुद्रा त्रिखण्डा सिद्धमण्डिता ।
शृङ्गारपीठनिलया काली मातङ्गकन्यका ॥ ८७ ॥
संवर्तमण्डलान्तःस्था भुवनोद्यानवासिनी ।
पादुकाक्रमसन्तृप्ता भैरवस्थाऽपराजिता ॥ ८८ ॥
निर्वाणा सौरभा दुर्गा महिषासुरमर्दिनी ।
भ्रमराम्बा शिखरिका ब्रह्मविष्ण्वीशतर्पिता ॥ ८९ ॥
उन्मत्तहेला रसिका योगिनी योगदर्पिता ।
सन्तानानन्दिनी बीजचक्रा परमकारुणी ॥ ९० ॥
खेचरी नायिका योग्या परिवृत्ताऽतिमोहिनी ।
शाकम्भरी सम्भवित्री स्कन्दाऽऽनन्दी मदार्पिता ॥ ९१ ॥
क्षेमङ्करी सुमा श्वासा स्वर्गदा बिन्दुकारिणी ।
चर्चिता चर्चितपदा चारुखट्वाङ्गधारिणी ॥ ९२ ॥
अघोरा मन्त्रितपदा भामिनी भवरूपिणी ।
उषा सङ्कर्षिणी धात्री चोमा कात्यायनी शिवा ॥ ९३ ॥
सुलभा दुर्लभा शास्त्री महाशास्त्री शिखण्डिनी ।
योगलक्ष्मीर्भोगलक्ष्मीः राज्यलक्ष्मीः कपालिनी ॥ ९४ ॥
देवयोनिर्भगवती धन्विनी नादिनीश्वरी ।
क्षेत्रात्मिका महाधात्री बलिनी केतुमालिनी ॥ ९५ ॥
सदानन्दा सदाभद्रा फल्गुनी रक्तवर्षिणी ।
मन्दारमन्दिरा तीव्रा ग्राहिणी सर्वभक्षिणी ॥ ९६ ॥
अग्निजिह्वा महाजिह्वा शूलिनी शुद्धिदा परा ।
सुवर्णिका कालदूती देवी कालस्वरूपिणी ॥ ९७ ॥
कुम्भिनी शयनी गुर्वी वाराही हुंफडात्मिका ।
उग्रात्मिका पद्मवती धूर्जटी चक्रधारिणी ॥ ९८ ॥
देवी तत्पुरुषा शिक्षा माध्वी स्त्रीरूपधारिणी ।
दक्षा दाक्षायणी दीक्षा मदना मदनातुरा ॥ ९९ ॥
धिष्ण्या हिरण्या सरणिः धरित्री धररूपिणी ।
वसुधा वसुधाछाया वसुधामा सुधामयी ॥ १०० ॥
शृङ्गिणी भीषणा सान्द्री प्रेतस्थाना मतङ्गिनी ।
खण्डिनी योगिनी तुष्टिः नादिनी भेदिनी नटी ॥ १०१ ॥
खट्वाङ्गिनी कालरात्रिः मेघमाला धरात्मिका ।
भापीठस्था भवद्रूपा महाश्रीर्धूम्रलोचना ॥ १०२ ॥
सुखदा गन्धिनी बन्धुर्बन्धिनी बन्धमोचिनी ।
सावित्री सत्कृतिः कर्त्री क्षमा माया महोदया ॥ १०३ ॥
गणेश्वरी गणाकारा सद्गुणा गणपूजिता ।
निर्मला गिरिजा शब्दा शर्वाणी शर्मदायिनी ॥ १०४ ॥
एकाकिनी सिन्धुकन्या काव्यसूत्रस्वरूपिणी ।
अव्यक्तरूपिणी व्यक्ता योगिनी पीठरूपिणी ॥ १०५ ॥
निर्मदा धामदाऽऽदित्या नित्या सेव्याऽक्षरात्मिका ।
तपिनी तापिनी दीक्षा शोधिनी शिवदायिनी ॥ १०६ ॥
स्वस्ति स्वस्तिमती बाला कपिला विस्फुलिङ्गिनी ।
अर्चिष्मती द्युतिमती कौलिनी कव्यवाहिनी ॥ १०७ ॥
जनाश्रिता विष्णुविद्या मानसी विन्ध्यवासिनी ।
विद्याधरी लोकधात्री सर्वा सारस्वरूपिणी ॥ १०८ ॥
पापघ्नी सर्वतोभद्रा त्रिस्था शक्तित्रयात्मिका ।
त्रिकोणनिलया त्रिस्था त्रयीमाता त्रयीतनुः ॥ १०९ ॥
त्रयीविद्या त्रयीसारा त्रयीरूपा त्रिपुष्करा ।
त्रिवर्णा त्रिपुरा त्रिश्रीः त्रिमूर्तिस्त्रिदशेश्वरी ॥ ११० ॥
त्रिकोणसंस्था त्रिविधा त्रिस्वरा त्रिपुराम्बिका ।
त्रिदिवा त्रिदिवेशानी त्रिस्था त्रिपुरदाहिनी ॥ १११ ॥
जङ्घिनी स्फोटिनी स्फूर्तिः स्तम्भिनी शोषिणी प्लुता ।
ऐङ्काराख्या वामदेवी खण्डिनी चण्डदण्डिनी ॥ ११२ ॥
क्लीङ्कारी वत्सला हृष्टा सौःकारी मदहंसिका ।
वज्रिणी द्राविणी जैत्री श्रीमती गोमती ध्रुवा ॥ ११३ ॥
परतेजोमयी संवित्पूर्णपीठनिवासिनी ।
त्रिधात्मा त्रिदशा त्र्यक्षा त्रिघ्नी त्रिपुरमालिनी ॥ ११४ ॥
त्रिपुराश्रीस्त्रिजननी त्रिभूस्त्रैलोक्यसुन्दरी ।
कुमारी कुण्डली धात्री बाला भक्तेष्टदायिनी ॥ ११५ ॥
कलावती भगवती भक्तिदा भवनाशिनी ।
सौगन्धिनी सरिद्वेणी पद्मरागकिरीटिनी ॥ ११६ ॥
तत्त्वत्रयी तत्त्वमयी मन्त्रिणी मन्त्ररूपिणी ।
सिद्धा श्रीत्रिपुरावासा बालात्रिपुरसुन्दरी ॥ ११७ ॥
बालात्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ।
कथितं देवदेवेशि सर्वमङ्गलदायकम् ॥ ११८ ॥
सर्वरक्षाकरं देवि सर्वसौभाग्यदायकम् ।
सर्वाश्रयकरं देवि सर्वानन्दकरं वरम् ॥ ११९ ॥
सर्वपापक्षयकरं सदा विजयवर्धनम् ।
सर्वदा श्रीकरं देवि सर्वयोगीश्वरीमयम् ॥ १२० ॥
सर्वपीठमयं देवि सर्वानन्दकरं परम् ।
सर्वदौर्भाग्यशमनं सर्वदुःखनिवारणम् ॥ १२१ ॥
सर्वाभिचारदोषघ्नं परमन्त्रविनाशनम् ।
परसैन्यस्तम्भकरं शत्रुस्तम्भनकारणम् ॥ १२२ ॥
महाचमत्कारकरं महाबुद्धिप्रवर्धनम् ।
महोत्पातप्रशमनं महाज्वरनिवारणम् ॥ १२३ ॥
महावश्यकरं देवि महासुखफलप्रदम् ।
एवमेतस्य मन्त्रस्य प्रभावो वर्णितुं मया ॥ १२४ ॥
न शक्यते वरारोहे कल्पकोटि शतैरपि ।
यः पठेत्सङ्गमे नित्यं सर्वदा मन्त्रसिद्धिदम् ॥ १२५ ॥
इति श्रीविष्णुयामले श्री बालात्रिपुरसुन्दरी सहस्रनाम स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.