Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गिरीन्द्रराजबालिकां दिनेशतुल्यरूपिकाम् ।
प्रवालजाप्यमालिकां भजामि दैत्यमर्दिकाम् ॥ १ ॥
निशेशमौलिधारिकां नृमुण्डपङ्क्तिशोभिकाम् ।
नवीनयौवनाख्यकां स्मरामि पापनाशिकाम् ॥ २ ॥
भवार्णवात्तु तारिकां भवेन सार्धखेलिकाम् ।
कुतर्ककर्मभञ्जिकां नमामि प्रौढरूपिकाम् ॥ ३ ॥
स्वरूपरूपकालिकां स्वयं स्वयम्भुस्वात्मिकाम् ।
खगेशराजदण्डिकां अईकरां सुबीजकाम् ॥ ४ ॥
श्मशानभूमिशायिकां विशालभीतिवारिणीम् ।
तुषारतुल्यवाचिकां सनिम्नतुङ्गनाभिकाम् ॥ ५ ॥
सुपट्टवस्त्रसाजिकां सुकिङ्किणीविराजिताम् ।
सुबुद्धिबुद्धिदायिकां सुरा सदा सुपीयकाम् ॥ ६ ॥
सक्लीं ससौः ससर्गकां सनातनेश चाम्बिकाम् ।
ससृष्टिपालनाशिकां प्रणौमि दीर्घकेशकाम् ॥ ७ ॥
सहस्रमार्गपालिका परापरात्मभव्यकाम् ।
सुचारुचारुवक्त्रका शिवं ददातु भद्रिका ॥ ८ ॥
इत्येतत्परमं गुह्यं पञ्चचामरसञ्ज्ञकम् ।
बालाग्रे यः पठति च तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ९ ॥
यं यं चिन्तयते कामं तं तं प्राप्नोति साधकः ।
सिद्धिः करतले तस्य मृते मोक्षमवाप्नुयात् ॥ १० ॥
इति श्री बाला पञ्चचामर स्तवः ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.