Sri Ayyappa Ashtottara Satanama stotram – श्री अय्यप्पाष्टोत्तरशतनाम स्तोत्रम्


महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्ता परात्परः ॥ १ ॥

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ २ ॥

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ ३ ॥

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ ४ ॥

भूतेशो भूतिदो भृत्यो भुजङ्गाभरणोत्तमः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ ५ ॥

मायादेवीसुतो मान्यो महानीतो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ ६ ॥

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः । [प्रियः]
मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥ ७ ॥

देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ ८ ॥

देवशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ ९ ॥

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ १० ॥

ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः ।
त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः ॥ ११ ॥

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ १२ ॥

संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ १३ ॥

सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णसम्युक्तो परमात्मा सताङ्गतिः ॥ १४ ॥

अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥ १५ ॥

इति श्री अय्यप्प अष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed