Sri Amba Pancharatna Stotram – श्री अम्बा पञ्चरत्न स्तोत्रम्


अम्बाशम्बरवैरितातभगिनी श्रीचन्द्रबिम्बानना
बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।
ह्रीङ्काराक्षरमन्त्रमध्यसुभगा श्रोणीनितम्बाङ्किता
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ १ ॥

कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका
काला श्यामलमेचकद्युतिमती कादित्रिपञ्चाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ २ ॥

काञ्चीकङ्कणहारकुण्डलवती कोटीकिरीटान्विता
कन्दर्पद्युतिकोटिकोटिसदना पीयूषकुम्भस्तना ।
कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ३ ॥

या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्याऽऽसनी ।
या देवी मधुकैटभासुररिपुर्या माहिषध्वंसिनी
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ४ ॥

श्रीविद्या परदेवताऽऽदिजननी दुर्गा जया चण्डिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ५ ॥

अम्बापञ्चकमद्भुतं पठति चेद्यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममतिं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं
अन्ते स्वर्गफलं लभेत्स विबुधैः संस्तूयमानो नरः ॥ ६ ॥

इति श्री अम्बा पञ्चरत्न स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed