Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सिंहशैलनिवासाय सिंहसूकररूपिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ १ ॥
यज्ञेशाय महेशाय सुरेशाय महात्मने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ २ ॥
अक्षयायाऽप्रमेयाय निधये अक्षराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ३ ॥
चन्दनाङ्कितगात्राय पोत्रिणे परमात्मने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ४ ॥
श्रीअक्षयतृतीयायां निजरूपधराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ५ ॥
यतीश्वरेणार्चिताय गतये सर्वसाक्षिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ६ ॥
सप्तोत्तरशतेयज्ञे स्वस्वरूपधराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ७ ॥
विशाखाय सुशाखाय सागरायाचलाय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ८ ॥
श्रीभूनीलासमेताय भक्तानां कामधेनवे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ९ ॥
यज्ञाय यज्ञरूपाय यज्ञिने यज्ञसाक्षिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ १० ॥
पद्मनाभाय देवाय पद्मगर्भाय पद्मिने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ११ ॥
मुक्कूर् नृसिंहदासेन सिंहाद्रीशस्य मङ्गलम् ।
श्रीरङ्गयोगिकृपया प्रोक्तं सर्वार्थदायकम् ॥ १२ ॥
इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं श्री सिंहाचल वराहनृसिंह मङ्गलम् ॥
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.