Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमस्ते शारदे देवि काश्मीरपुरवासिनि
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ १ ॥
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा
भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ २ ॥
नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम्
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ३ ॥
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ॥ ४ ॥
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ ५ ॥
यया विना जगत्सर्वं शश्वज्जीवन्मृतं भवेत्
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ६ ॥
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥ ७ ॥
इतर श्री सरस्वती स्तोत्राणि पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.