Sarpa Suktam – सर्प सूक्तम्


नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑: स॒र्पेभ्यो॒ नम॑: । (तै।सं।४।२।३)

ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सद॑: कृ॒तं तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।

या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ग्ं॒‍ रनु॑ ।
ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्य॑: स॒र्पेभ्यो॒ नम॑: ।

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेत॑: ।
ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ ।
ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिवं॑ दे॒वीमनु॑स॒न्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम्᳚ ।
तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥ २ ॥

नि॒घृष्वै॑रस॒मायु॑तैः ।
कालैर्हरित्व॑माप॒न्नैः ।
इन्द्राया॑हि स॒हस्र॑युक् ।
अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।
वा॒युश्वेत॑सिकद्रु॒कः ।
सं॒व॒थ्स॒रो वि॑षू॒वर्णै᳚: ।
नित्या॒स्तेऽनुच॑रास्त॒व ।
सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्मण्योग्म् ॥ ३ ॥

ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed