Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
–(ऋ।वे।६।६१)
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ ।
या शश्व᳚न्तमाच॒खशदा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥ १ ॥
इ॒यं शुष्मे᳚भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभि॑: ।
पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॑स्सर॑स्वती॒ मा वि॑वासेम धी॒तिभि॑: ॥ २ ॥
सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिन॑: ।
उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ॥ ३ ॥
प्रणो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती ।
धी॒नाम॑वि॒त्र्य॑वतु ॥ ४ ॥
यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते ।
इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ॥ ५ ॥
त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि ।
रदा᳚ पू॒षेव॑ नः स॒निम् ॥ ६ ॥
उ॒त स्या न॒: सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः ।
वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥ ७ ॥
यस्या᳚ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः ।
अम॒श्चर॑ति॒ रोरु॑वत् ॥ ८ ॥
सा नो॒ विश्वा॒ अति॒ द्विष॒: स्वसॄ᳚र॒न्या ऋ॒ताव॑री ।
अत॒न्नहे᳚व॒ सूर्य॑: ॥ ९ ॥
उ॒त न॑: प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा ।
सर॑स्वती॒ स्तोम्या᳚ भूत् ॥ १० ॥
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अ॒न्तरि॑क्षम् ।
सर॑स्वती नि॒दस्पा᳚तु ॥ ११ ॥
त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तु॒: पञ्च॑ जा॒ता व॒र्धय᳚न्ती ।
वाजे᳚वाजे॒ हव्या᳚ भूत् ॥ १२ ॥
प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा᳚म॒पस्त॑मा ।
रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ॥ १३ ॥
सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरी॒: पय॑सा॒ मा न॒ आ ध॑क् ।
जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत् क्षेत्रा॒ण्यर॑णानि गन्म ॥ १४ ॥
–(ऋ।वे।७।९५)
प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः ।
प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚ अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥ १५ ॥
एका᳚चेत॒त्सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् ।
रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ॥ १६ ॥
स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु ।
स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ॥ १७ ॥
उ॒त स्या न॒: सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा᳚ य॒ज्ञे अ॒स्मिन् ।
मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥ १८ ॥
इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भि॒: प्रति॒ स्तोमं᳚ सरस्वति जुषस्व ।
तव॒ शर्म᳚न्प्रि॒यत॑मे॒ दधा᳚ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥ १९ ॥
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः ।
वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा॑न्यू॒यं पा᳚त स्व॒स्तिभि॒: सदा᳚ नः ॥ २० ॥
–(ऋ।वे।७।९६)
बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् ।
सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒स्स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ॥ २१ ॥
उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रव॑: ।
सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ॥ २२ ॥
भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती ।
गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥ २३ ॥
ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्त॑: सु॒दान॑वः ।
सर॑स्वन्तं हवामहे ॥ २४ ॥
ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुत॑: ।
तेभि᳚र्नोऽवि॒ता भ॒व ॥ २५ ॥
पी॒पि॒वांसं॒ सर॑स्वत॒: स्तनं॒ यो वि॒श्वद॑र्शतः ।
भ॒क्षी॒महि॑ प्र॒जामिषम्᳚ ॥ २६ ॥
–(ऋ।वे।२।४१।१६)
अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति ।
अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥ २७ ॥
त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् ।
शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ॥ २८ ॥
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।
या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥ २९ ॥
–(ऋ।वे।१।३।१०)
पा॒व॒का न॒: सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती ।
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥ ३० ॥
चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् ।
य॒ज्ञं द॑धे॒ सर॑स्वती ॥ ३१ ॥
म॒हो अर्ण॒: सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ ।
धियो॒ विश्वा॒ वि रा᳚जति ॥ ३२ ॥
–(ऋ।वे।१०।१७।७)
सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने ।
सर॑स्वतीं सु॒कृतो᳚ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ॥ ३३ ॥
सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे᳚ह्य॒स्मे ॥ ३४ ॥
सर॑स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
स॒ह॒स्रा॒र्घमि॒लो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥ ३५ ॥
–(ऋ।वे।५।४३।११)
आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् ।
हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ ३६ ॥
–(ऋ।वे।२।३२।४)
रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ ।
सीव्य॒त्वप॑: सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्यम्᳚ ॥ ३७ ॥
यास्ते᳚ राके सुम॒तय॑: सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि ।
ताभि᳚र्नो अ॒द्य सु॒मना᳚ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ॥ ३८ ॥
सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ॥ ३९ ॥
या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री ।
तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ ४० ॥
या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती ।
इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ॥ ४१ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
इतर श्री सरस्वती स्तोत्राणि पश्यतु ।
గమనిక: శరన్నవరాత్రుల సందర్భంగా "శ్రీ లలితా స్తోత్రనిధి" మరియు "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకములు కొనుగోలుకు అందుబాటులో ఉన్నాయి.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.