Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शान्तचित्ता महाप्रज्ञा सायिनाथा दयाघना ।
दयासिन्धो सत्स्वरूपा मायातमविनाशक ॥ १ ॥
जातिगोत्रातीतसिद्धा अचिन्त्यकरुणालया ।
पाहि मां पाहि मां नाथा शिर्डी ग्रामनिवासया ॥ २ ॥
ज्ञानसूर्य ज्ञानदाता सर्वमङ्गलकारका ।
भक्तचित्तमरालस्त्वं शरणागतरक्षका ॥ ३ ॥
सृष्टिकर्ता विधाता त्वं पाता त्वं इन्दिरापतिः ।
जगत्रयं लयं नेता रुद्रस्त्वं सुनिश्चितम् ॥ ४ ॥
वसुधायां वित्तस्थानं कुत्र नास्ति त्वया विना ।
सर्वज्ञस्त्वं सायिनाथ सर्वेषां हृदये असि ॥ ५ ॥
सर्वापराधान् क्षमस्व त्वं इयं मे अस्ति याचना ।
अभक्तिसंशययोः लहरी शीघ्रं शीघ्रं निवारय ॥ ६ ॥
त्वं धेनुः बालवत्सोहं चन्द्रश्चन्द्रमणिस्तथा ।
गङ्गासदृश त्वत्पादान् सादरं प्रणमाम्यहम् ॥ ७ ॥
निधेहि शिरसि मे त्वं कृपयाः करपञ्जरम् ।
शोकचिन्तापहर त्वं गणो हि किङ्करस्तवः ॥ ८ ॥ [गणुरेषः]
॥ इति श्री सायिनाथ प्रार्थनाष्टकम् ॥
इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.