Ranganathashtakam – रङ्गनाथाष्टकम्


आनन्दरूपे निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे ।
शशाङ्करूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे ॥ १ ॥

कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुकेले ।
दैत्यान्तकालेऽखिललोकलीले
श्रीरङ्गलीले रमतां मनो मे ॥ २ ॥

लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे ।
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे ॥ ३ ॥

ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये ।
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो मे ॥ ४ ॥

ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे ॥ ५ ॥

अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे ।
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे ॥ ६ ॥

सचित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे ॥ ७ ॥

इदं हि रङ्गं त्यजतामिहाङ्गं
पुनर्न चाङ्गं यदि चाङ्गमेति ।
पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं
याने विहङ्गं शयने भुजङ्गम् ॥ ८ ॥

रङ्गनाथाष्टकं पुण्यं प्रातरुत्थाय यः पठेत् ।
सर्वान्कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात् ॥ ९ ॥

इति श्री रङ्गनाथाष्टकम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed