Nava Narasimha Mangala Shlokah – श्री नवनारसिंह मङ्गलश्लोकाः


नवनारसिंह मूर्तयः –
ज्वालाऽहोबल मालोल क्रोड कारञ्ज भार्गवाः ।
योगानन्द च्छत्रवट पावना नवमूर्तयः ॥

१। ज्वाला नरसिंह –
हिरण्यस्तम्भसम्भूति प्रख्यात परमात्मने ।
प्रह्लादार्तिमुषे ज्वालानरसिंहाय मङ्गलम् ॥ १ ॥

२। अहोबल नरसिंह –
श्रीशठारियतीन्द्रादि योगिहृत्पद्मभानवे ।
सर्वत्र परिपूर्णायाऽहोबिलेशाय मङ्गलम् ॥ २ ॥

३। मालोल नरसिंह –
वारिजावारितभयैर्वाणीपतिमुखैः सुरैः ।
महिताय महोदार मालोलायाऽस्तु मङ्गलम् ॥ ३ ॥

४। क्रोड नरसिंह –
वराहकुण्डे मेदिन्यै वाराहार्थप्रदायिने ।
दन्तलग्न हिरण्याक्ष दंष्ट्रसिंहाय मङ्गलम् ॥ ४ ॥

५। कारञ्ज नरसिंह –
गोभूहिरण्यनिर्विण्णगोभिलज्ञानदायिने ।
प्रभञ्जन शुनासीर कारञ्जायाऽस्तु मङ्गलम् ॥ ५ ॥

६। भार्गव नरसिंह –
भार्गवाख्य तपस्वीश भावनाभावितात्मने ।
अक्षय्यतीर्थतीरस्थ भार्गवायाऽस्तु मङ्गलम् ॥ ६ ॥

७। योगानन्द नरसिंह –
चतुराननचेतोऽब्जचित्रभानुस्वरूपिणे ।
वेदाद्रिगह्वरस्थाय योगानन्दाय मङ्गलम् ॥ ७ ॥

८। छत्रवट नरसिंह –
हाहाहूह्वाख्यगन्धर्वनृत्तगीतहृतात्मने ।
भवहन्तृ तटच्छत्र वटसिंहाय मङ्गलम् ॥ ८ ॥

९। पावन नरसिंह –
भारद्वाज महायोगि महापातकहारिणे ।
तापनीयरहस्यार्थ पावनायाऽस्तु मङ्गलम् ॥ ९ ॥

इति श्री नवनारसिंह मङ्गलश्लोकाः ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed