Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
चतुर्थदशकम् (४) – योगाभ्यासः तथा योगसिद्धिः
कल्यतां मम कुरुष्व तावतीं
कल्यते भवदुपासनं यया ।
स्पष्टमष्टविधयोगचर्यया
पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् ॥ ४-१ ॥
ब्रह्मचर्यदृढतादिभिर्यमै-
-राप्लवादिनियमैश्च पाविताः ।
कुर्महे दृढममी सुखासनं
पङ्कजाद्यमपि वा भवत्पराः ॥ ४-२ ॥
तारमन्तरनुचिन्त्य सन्ततं
प्राणवायुमभियम्य निर्मलाः ।
इन्द्रियाणि विषयादथापहृ-
-त्यास्महे भवदुपासनोन्मुखाः ॥ ४-३ ॥
अस्फुटे वपुषि ते प्रयत्नतो
धारयेम धिषणां मुहुर्मुहुः ।
तेन भक्तिरसमन्तरार्द्रता-
-मुद्वहेम भवदङ्घ्रिचिन्तकाः ॥ ४-४ ॥
विस्फुटावयवभेदसुन्दरं
त्वद्वपुः सुचिरशीलनावशात् ।
अश्रमं मनसि चिन्तयामहे
ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ४-५ ॥
ध्यायतां सकलमूर्तिमीदृशी-
-मुन्मिषन्मधुरताहृतात्मनाम् ।
सान्द्रमोदरसरूपमान्तरं
ब्रह्मरूपमयि तेऽवभासते ॥ ४-६ ॥
तत्समास्वदनरूपिणीं स्थितिं
त्वत्समाधिमयि विश्वनायक ।
आश्रिताः पुनरतः परिच्युता-
-वारभेमहि च धारणादिकम् ॥ ४-७ ॥
इत्थमभ्यसननिर्भरोल्लसत्
त्वत्परात्मसुखकल्पितोत्सवाः ।
मुक्तभक्तकुलमौलितां गताः
सञ्चरेम शुकनारदादिवत् ॥ ४-८ ॥
त्वत्समाधिविजये तु यः पुन-
-र्मङ्क्षु मोक्षरसिकः क्रमेण वा ।
योगवश्यमनिलं षडाश्रयै-
-रुन्नयत्यज सुषुम्नया शनैः ॥ ४-९ ॥
लिङ्गदेहमपि सन्त्यजन्नथो
लीयते त्वयि परे निराग्रहः ।
ऊर्ध्वलोककुतुकी तु मूर्धतः
सार्धमेव करणैर्निरीयते ॥ ४-१० ॥
अग्निवासरवलर्क्षपक्षगै-
-रुत्तरायणजुषा च दैवतैः ।
प्रापितो रविपदं भवत्परो
मोदवान् ध्रुवपदान्तमीयते ॥ ४-११ ॥
आस्थितोऽथ महरालये यदा
शेषवक्त्रदहनोष्मणार्द्यते ।
ईयते भवदुपाश्रयस्तदा
वेधसः पदमतः पुरैव वा ॥ ४-१२ ॥
तत्र वा तव पदेऽथवा वसन्
प्राकृतप्रलय एति मुक्तताम् ।
स्वेच्छया खलु पुरा विमुच्यते
संविभिद्य जगदण्डमोजसा ॥ ४-१३ ॥
तस्य च क्षितिपयोमहोऽनिल-
-द्यो महत्प्रकृतिसप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी
याति ते पदमनावृतं विभो ॥ ४-१४ ॥
अर्चिरादिगतिमीदृशीं व्रजन्
विच्युतिं न भजते जगत्पते ।
सच्चिदात्मक भवद्गुणोदया-
-नुच्चरन्तमनिलेश पाहि माम् ॥ ४-१५ ॥
इति चतुर्थदशकं समाप्तम् ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

