Mukthaka Mangalam (Sri Manavala Mamunigal) – मुक्तकमङ्गलम्


श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥

लक्ष्मीचरणलाक्षाङ्कसाक्षी श्रीवत्सवक्षसे ।
क्षेमं‍कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥ १ ॥

श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ २ ॥

अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे ।
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥ ३ ॥

कमलाकुचकस्तूरीकर्दमाङ्कितवक्षसे ।
यादवाद्रिनिवासाय सम्पत्पुत्राय मङ्गलम् ॥ ४ ॥

श्रीनगर्यां महापुर्यां ताम्रपर्ण्युत्तरे तटे ।
श्रीतिन्त्रिणीमूलधाम्ने शठकोपाय मङ्गलम् ॥ ५ ॥

श्रीमत्यै विष्णुचित्तार्यमनोनन्दनहेतवे ।
नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गलम् ॥ ६ ॥

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ ७ ॥

मङ्गलाशासनपरैः मदाचर्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ ८ ॥

पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च ।
प्राप्याय प्रापकायाऽस्तु वेङ्कटेशाय मङ्गलम् ॥ ९ ॥

श्रीमते रम्यजामातृ मुनीन्द्राय महात्मने ।
श्रीरङ्गवासिने भूयात् मङ्गलं नित्यमङ्गलम् ॥ १० ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed