Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
देवा ऊचुः ।
नमो यज्ञवराहाय नमस्ते शतबाहवे ।
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे ॥ १ ॥
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे ।
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे ॥ २ ॥
भूतात्मने नमस्तुभ्यं ऋग्वेदवपुषे तथा ।
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः ॥ ३ ॥
ओङ्काराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे ।
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च ॥ ४ ॥
नमस्ते वेदवेदाङ्ग साङ्गोपाङ्गाय ते नमः ।
गोविन्दाय नमस्तुभ्यमनादिनिधनाय च ॥ ५ ॥
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे ।
श्रीभूलीलाधिपतये जगत्पित्रे नमो नमः ॥ ६ ॥
इति श्रीपद्मपुराणे उत्तरखण्डे देवकृत वराहस्तुतिः ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.