Devadaru Vanastha Muni Krita Parameshwara Stuti – श्री परमेश्वर स्तुतिः (देवदारुवनस्थ मुनि कृतम्)


ऋषय ऊचुः ।
नमो दिग्वाससे नित्यं कृतान्ताय त्रिशूलिने ।
विकटाय करालाय करालवदनाय च ॥ १ ॥

अरूपाय सुरूपाय विश्वरूपाय ते नमः ।
कटङ्कटाय रुद्राय स्वाहाकाराय वै नमः ॥ २ ॥

सर्वप्रणतदेहाय स्वयं च प्रणतात्मने ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ॥ ३ ॥

नीलकण्ठाय देवाय चिताभस्माङ्गधारिणे ।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ ४ ॥

आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यते ।
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ॥ ५ ॥

ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ।
ओङ्कारः सर्ववेदानां श्रेष्ठं साम च सामसु ॥ ६ ॥

आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः ।
ग्राम्याणामृषभश्चासि भगवान् लोकपूजितः ॥ ७ ॥

सर्वथा वर्तमानोऽपि यो यो भावो भविष्यति ।
त्वामेव तत्र पश्यामो ब्रह्मणा कथितं यथा ॥ ८ ॥

कामः क्रोधश्च लोभश्च विषादो मद एव च ।
एतदिच्छामहे बोद्धुं प्रसीद परमेश्वर ॥ ९ ॥

महासंहरणे प्राप्ते त्वया देव कृतात्मना ।
करं ललाटे संविध्य वह्निरुत्पादितस्त्वया ॥ १० ॥

तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः ।
तस्मादग्निसमा ह्येते बहवो विकृताग्नयः ॥ ११ ॥

कामः क्रोधश्च लोभश्च मोहो दम्भ उपद्रवः ।
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥ १२ ॥

दह्यं ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ १३ ॥

त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ।
महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ १४ ॥

आज्ञापय वयं नाथ कर्तारो वचनं तव ।
भूतकोटिसहस्रेषु रूपकोटिशतेषु च ॥ १५ ॥

अन्तं गन्तुं न शक्ताः स्म देवदेव नमोऽस्तु ते ॥ १६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे द्वात्रिंशोऽध्याये देवदारुवनस्थ मुनिकृत परमेश्वर स्तुतिः ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed