Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पद्मादिराजे गरुडादिराजे विरिञ्चिराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे नमता नमामि ॥ १ ॥
श्रीचित्तशायी भुजङ्गेन्द्रशायी नादार्कशायी फणिभोगशायी ।
अंभोधिशायी वटपत्रशायी श्रीरङ्गराजे नमता नमामि ॥ २ ॥
लक्ष्मीनिवासे जगतांनिवासे हृत्पद्मवासे रविबिम्बवासे ।
शेषाद्रिवासेऽखिललोकवासे श्रीरङ्गवासे नमता नमामि ॥ ३ ॥
नीलाम्बुवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे ।
श्रीवल्लिरङ्गेजितमल्लरङ्गे श्रीरङ्गरङ्गे नमता नमामि ॥ ४ ॥
ब्रह्मादिवन्द्ये जगदेकवन्द्ये रङ्गे मुकुन्दे मुदितारविन्दे ।
गोविन्ददेवाखिल देवदेवे श्रीरङ्गदेवे नमता नमामि ॥ ५ ॥
अनन्तरूपे निजबोधरूपे भक्तिस्वरूपे श्रुतिमूर्तिरूपे ।
श्रीकान्तिरूपे रमणीयरूपे श्रीरङ्गरूपे नमता नमामि ॥ ६ ॥
कर्मप्रमादे नरकप्रमादे भक्तिप्रमादे जगताधिगाधे ।
अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे नमता नमामि ॥ ७ ॥
अमोघनिद्रे जगदेकनिद्रे विदेह्यनिद्रे विषयासमुद्रे ।
श्रीयोगनिद्रे सुखयोगनिद्रे श्रीरङ्गनिद्रे नमता नामामि ॥ ८ ॥
रङ्गाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।
कोटिजन्मकृतं पापं तत् क्षणेन विनश्यति ॥ ९ ॥
इति श्रीरङ्गनाथाष्टकम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.