Brahma Suktam – ब्रह्म सूक्तम्


ओं ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् ।
वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः ।
स॒तश्च॒ योनि॒-मस॑तश्च॒ विव॑: ।

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑क्षं वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर्-अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः ॥

ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दं जग॑त् ।
ब्रह्म॑णः क्ष॒त्रं निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ॥

अ॒न्तर॑स्मिन्नि॒मे लो॒काः ।
अ॒न्तर्विश्व॑मि॒दं जग॑त् ।
ब्रह्मै॒व भू॒तानां॒ ज्येष्ठम्᳚ ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ॥

ब्रह्म॑न् दे॒वास्त्रय॑स्त्रिग्ंशत् ।
ब्रह्म॑न्निन्द्र प्रजाप॒ति ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तः स॒माहि॑ता ॥

चत॑स्र॒ आशा॒: प्रच॑रन्-त्व॒ग्नय॑: ।
इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्न् ।
घृ॒तं पिन्व॑न्न॒जरग्ं॑ सु॒वीरम्᳚ ।
ब्रह्म॑ स॒मिद्-भ॑व॒त्याहु॑तीनाम् ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed