Balakanda Sarga 57 – बालकाण्ड सप्तपञ्चाशः सर्गः (५७)


॥ त्रिशङ्कुयाजनप्रार्थना ॥

ततः सन्तप्तहृदयः स्मरन्निग्रहमात्मनः ।
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥ १ ॥

स दक्षिणां दिशं गत्वा महिष्या सह राघव ।
तताप परमं घोरं विश्वामित्रो महत्तपः ॥ २ ॥

अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ।
हविःष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः ॥ ३ ॥

पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ ४ ॥

जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ।
अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥ ५ ॥

एवमुक्त्वा महातेजा जगाम सह दैवतैः ।
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः ॥ ६ ॥

विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः ।
दुःखेन महताऽऽविष्टः समन्युरिदमब्रवीत् ॥ ७ ॥

तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ।
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् ॥ ८ ॥

इति निश्चित्य मनसा भूयैव महातपाः ।
तपश्चचार काकुत्स्थ परमं परमात्मवान् ॥ ९ ॥

एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ।
त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः ॥ १० ॥

तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ।
गच्छेयं स्वशरीरेण देवानां परमां गतिम् ॥ ११ ॥

स वसिष्ठं समाहूय कथयामास चिन्तितम् ।
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥ १२ ॥

प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ।
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः ॥ १३ ॥

वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।
त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् ॥ १४ ॥

वसिष्ठपुत्रान्ददृशे तप्यमानान्यशस्विनः ।
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् ॥ १५ ॥

अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुखः ।
अब्रवीत्सुमहाभागान्सर्वानेव कृताञ्जलिः ॥ १६ ॥

शरणं वः प्रपद्येऽहं शरण्यान् शरणागतः ।
प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना ॥ १७ ॥

यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।
गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये ॥ १८ ॥

शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ।
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ॥ १९ ॥

सशरीरो यथाहं वै देवलोकमवाप्नुयाम् ।
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ॥ २० ॥

गुरुपुत्रानृते सर्वान्नाहं पश्यामि काञ्चन ।
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ॥ २१ ॥

पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् ।
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

बालकाण्ड अष्टपञ्चाशः सर्गः (५८) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed