Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
१। श्री बाल गणपतिः
करस्थ कदलीचूतपनसेक्षुकमोदकम् ।
बालसूर्यनिभं वन्दे देवं बालगणाधिपम् ॥ १ ॥
२। श्री तरुण गणपतिः
पाशाङ्कुशापूपकपित्थजम्बू-
-स्वदन्तशालीक्षुमपि स्वहस्तैः ।
धत्ते सदा यस्तरुणारुणाभः
पायात् स युष्मांस्तरुणो गणेशः ॥ २ ॥
३। श्री भक्त गणपतिः
नारिकेलाम्रकदलीगुडपायसधारिणम् ।
शरच्चन्द्राभवपुषं भजे भक्तगणाधिपम् ॥ ३ ॥
४। श्री वीर गणपतिः
वेतालशक्तिशरकार्मुकचक्रखड्ग-
-खट्वाङ्गमुद्गरगदाङ्कुशनागपाशान् ।
शूलं च कुन्तपरशुं ध्वजमुद्वहन्तं
वीरं गणेशमरुणं सततं स्मरामि ॥ ४ ॥
५। श्री शक्ति गणपतिः
आलिङ्ग्य देवीं हरिताङ्गयष्टिं
परस्पराश्लिष्टकटिप्रदेशम् ।
सन्ध्यारुणं पाशसृणी वहन्तं
भयापहं शक्तिगणेशमीडे ॥ ५ ॥
६। श्री द्विज गणपतिः
यं पुस्तकाक्ष गुणदण्डकमण्डलु श्री-
-विद्योतमानकरभूषणमिन्दुवर्णम् ।
स्तम्बेरमाननचतुष्टयशोभमानं
त्वां यः स्मरेत् द्विजगणाधिपते स धन्यः ॥ ६ ॥
७। श्री सिद्ध गणपतिः
पक्वचूतफलपुष्पमञ्जरी-
-रिक्षुदण्डतिलमोदकैः सह ।
उद्वहन् परशुमस्तु ते नमः
श्रीसमृद्धियुत हेमपिङ्गल ॥ ७ ॥
८। श्री उच्छिष्ट गणपतिः
नीलाब्जदाडिमीवीणाशालीगुञ्जाक्षसूत्रकम् ।
दधदुच्छिष्टनामायं गणेशः पातु मेचकः ॥ ८ ॥
९। श्री विघ्न गणपतिः
शङ्खेक्षुचापकुसुमेषुकुठारपाश-
-चक्रस्वदन्तसृणिमञ्जरिकाशराद्यैः ।
पाणिश्रितैः परिसमीहितभूषणश्री-
-विघ्नेश्वरो विजयते तपनीयगौरः ॥ ९ ॥
१०। श्री क्षिप्र गणपतिः
दन्तकल्पलतापाशरत्नकुम्भाङ्कुशोज्ज्वलम् ।
बन्धूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥ १० ॥
११। श्री हेरम्ब गणपतिः
अभयवरदहस्तः पाशदन्ताक्षमाला-
-सृणिपरशु दधानो मुद्गरं मोदकं च ।
फलमधिगतसिंहः पञ्चमातङ्गवक्त्रो
गणपतिरतिगौरः पातु हेरम्बनामा ॥ ११ ॥
१२। श्री लक्ष्मी गणपतिः
बिभ्राणः शुकबीजपूरकमिलन्माणिक्यकुम्भाकुशान्
पाशं कल्पलतां च खड्गविलसज्ज्योतिः सुधानिर्झरः ।
श्यामेनात्तसरोरुहेण सहितं देवीद्वयं चान्तिके
गौराङ्गो वरदानहस्तसहितो लक्ष्मीगणेशोऽवतात् ॥ १२ ॥
१३। श्री महा गणपतिः
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा-
-दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदेक्षुकार्मुकलसच्चक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ॥ १३ ॥
१४। श्री विजय गणपतिः
पाशाङ्कुशस्वदन्ताम्रफलवानाखुवाहनः ।
विघ्नं निहन्तु नः सर्वं रक्तवर्णो विनायकः ॥ १४ ॥
१५। श्री नृत्त गणपतिः
पाशाङ्कुशापूपकुठारदन्त-
-चञ्चत्कराक्लुप्तवराङ्गुलीकम् ।
पीतप्रभं कल्पतरोरधस्थं
भजामि नृत्तोपपदं गणेशम् ॥ १५ ॥
१६। श्री ऊर्ध्व गणपतिः
कल्हारशालिकमलेक्षुकचापबाण-
-दन्तप्ररोहकगदी कनकोज्ज्वलाङ्गः ।
आलिङ्गनोद्यतकरो हरिताङ्गयष्ट्या
देव्या करोतु शुभमूर्ध्वगणाधिपो मे ॥ १६ ॥
१७। श्री एकाक्षर गणपतिः
रक्तो रक्ताङ्गरागाङ्कुशकुसुमयुतस्तुन्दिलश्चन्द्रमौलिः
नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरं दधानः ।
हस्ताग्राक्लुप्त पाशाङ्कुशरदवरदो नागवक्त्रोऽहिभूषो
देवः पद्मासनस्थो भवतु सुखकरो भूतये विघ्नराजः ॥ १७ ॥
१८। श्री वर गणपतिः
सिन्दूराभमिभाननं त्रिनयनं हस्ते च पाशाङ्कुशौ
बिभ्राणं मधुमत्कपालमनिशं साध्विन्दुमौलिं भजे ।
पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया
तद्योन्याहित पाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥ १८ ॥
१९। श्री त्र्यक्षर गणपतिः
गजेन्द्रवदनं साक्षाच्चलत्कर्णसुचामरं
हेमवर्णं चतुर्बाहुं पाशाङ्कुशधरं वरम् ।
स्वदन्तं दक्षिणे हस्ते सव्ये त्वाम्रपलं तथा
पुष्करैर्मोदकं चैव धारयन्तमनुस्मरेत् ॥ १९ ॥
२०। श्री क्षिप्रप्रसाद गणपतिः
धृतपाशाङ्कुशकल्पलता स्वरदश्च बीजपूरयुतः
शशिशकलकलितमौलिस्त्रिलोचनोऽरुणश्च गजवदनः ।
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरोल्लसितः
विघ्नपयोधरपवनः करधृतकमलः सदास्तु मे भूत्यै ॥ २० ॥
२१। श्री हरिद्रा गणपतिः
हरिद्राभं चतुर्बाहुं करीन्द्रवदनं प्रभुम् ।
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ।
भक्ताभयप्रदातारं वन्दे विघ्नविनाशनम् ॥ २१ ॥
२२। श्री एकदन्त गणपतिः
लम्बोदरं श्यामतनुं गणेशं
कुठारमक्षस्रजमूर्ध्वगात्रम् ।
सलड्डुकं दन्तमधः कराभ्यां
वामेतराभ्यां च दधानमीडे ॥ २२ ॥
२३। श्री सृष्टि गणपतिः
पाशाङ्कुशस्वदन्ताम्रफलवानाखुवाहनः ।
विघ्नं निहन्तु नः शोणः सृष्टिदक्षो विनायकः ॥ २३ ॥
२४। श्री उद्दण्ड गणपतिः
कल्हाराम्बुजबीजपूरकगदादन्तेक्षुचापं सुमं
बिभ्राणो मणिकुम्भशालिकलशौ पाशं सृणिं चाब्जकम् ।
गौराङ्ग्या रुचिरारविन्दकरया देव्या समालिङ्गतः
शोणाङ्गः शुभमातनोतु भजतामुद्दण्डविघ्नेश्वरः ॥ २४ ॥
२५। श्री ऋणमोचक गणपतिः
पाशाङ्कुशौ दन्तजम्बु दधानः स्फाटिकप्रभः ।
रक्तांशुको गणपतिर्मुदे स्यादृणमोचकः ॥ २५ ॥
२६। श्री ढुण्ढि गणपतिः
अक्षमालां कुठारं च रत्नपात्रं स्वदन्तकम् ।
धत्ते करैर्विघ्नराजो ढुण्ढिनामा मुदेऽस्तु नः ॥ २६ ॥
२७। श्री द्विमुख गणपतिः
स्वदन्तपाशाङ्कुशरत्नपात्रं
करैर्दधानो हरिनीलगात्रः ।
रक्तांशुको रत्नकिरीटमाली
भूत्यै सदा मे द्विमुखो गणेशः ॥ २७ ॥
२८। श्री त्रिमुख गणपतिः
श्रीमत्तीक्ष्णशिखाङ्कुशाक्षवरदान् दक्षे दधानः करैः
पाशं चामृतपूर्णकुम्भमभयं वामे दधानो मुदा ।
पीठे स्वर्णमयारविन्दविलसत्सत्कर्णिकाभासुरे
स्वासीनस्त्रिमुखः पलाशरुचिरो नागाननः पातु नः ॥ २८ ॥
२९। श्री सिंह गणपतिः
वीणां कल्पलतामरिं च वरदं दक्षे विदत्ते करै-
-र्वामे तामरसं च रत्नकलशं सन्मञ्जरीं चाभयम् ।
शुण्डादण्डलसन्मृगेन्द्रवदनः शङ्खेन्दुगौरः शुभो
दीव्यद्रत्ननिभांशुको गणपतिः पायादपायत् स नः ॥ २९ ॥
३०। श्री योग गणपतिः
योगारूढो योगपट्टाभिरामो
बालार्काभश्चेन्द्रनीलांशुकाढ्यः ।
पाशेक्ष्वक्षान् योगदण्डं दधानो
पायान्नित्यं योगविघ्नेश्वरो नः ॥ ३० ॥
३१। श्री दुर्गा गणपतिः
तप्तकाञ्चनसङ्काशश्चाष्टहस्तो महत्तनुः
दीप्ताङ्कुशं शरं चाक्षं दन्तु दक्षे वहन् करैः ।
वामे पाशं कार्मुकं च लतां जम्बु दधत्करैः
रक्तांशुकः सदा भूयाद्दुर्गागणपतिर्मुदे ॥ ३१ ॥
३२। श्री सङ्कष्टहर गणपतिः
बालार्कारुणकान्तिर्वामे बालां वहन्नङ्के
लसदिन्दीवरहस्तां गौराङ्गीं रत्नशोभाढ्याम् ।
दक्षेऽङ्कुशवरदानं वामे पाशं च पायसं पात्रं
नीलांशुकलसमानः पीठे पद्मारुणे तिष्ठन् ॥ ३२ ॥
सङ्कटहरणः पायात् सङ्कटपूगाद्गजाननो नित्यम् ।
——
श्री वल्लभ गणपति –
बीजापूर गदेक्षुकार्मुकभुजाचक्राब्ज पाशोत्पल
व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया च पद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविनाशसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥
श्री सिद्धिदेवी –
पीतवर्णां द्विनेत्रां तामेकवक्त्राम्बुजद्वयां
नवरत्नकिरीटां च पीताम्बरसुधारिणीम् ।
वामहस्ते महापद्मं दक्षे लम्बकरान्वितां
जाजीचम्पकमालां च त्रिभङ्गीं ललिताङ्गिकाम् ॥
गणेशदक्षिणे भागे गुरुः सिद्धिं तु भावयेत् ॥
श्री बुद्धिदेवी –
द्विहस्तां च द्विनेत्रां तामेकवक्त्रां त्रिभङ्गिकां
मुक्तामणिकिरीटां च दक्षे हस्ते महोत्पलम् ।
वामे प्रलम्बहस्तां च दिव्याम्बरसुधारिणीं
श्यामवर्णनिभां भास्वत्सर्वाभरणभूषिताम् ॥
पारिजातोत्पलामाल्यां गणेशो वामपार्श्वके
ध्यात्वा बुद्धिं सुरूपां समर्चयेद्देशिकोत्तमः ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

