Ayodhya Kanda Sarga 88 – अयोध्याकाण्ड अष्टाशीतितमः सर्गः (८८)



॥ शय्यानुवीक्षणम् ॥

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः ।
इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ १ ॥

अब्रवीज्जननीः सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमौ इदमस्य विमर्दितम् ॥ २ ॥

महाभागकुलीनेन महाभागेन धीमता ।
जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति ॥ ३ ॥

अजिनोत्तरसंस्तीर्णे वरास्तरण सञ्चये ।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ ४ ॥

प्रासादाग्र विमानेषु वलभीषु च सर्वदा ।
हैमराजतभौमेषु वरास्तरण शालिषु ॥ ५ ॥

पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु ।
पाण्डराभ्र प्रकाशेषु शुकसङ्घरुतेषु च ॥ ६ ॥

प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।
उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ ७ ॥

गीत वादित्र निर्घोषैर्वराभरण निस्स्वनैः ।
मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ ८ ॥

वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः ।
गाथाभिरनुरूपाभिः स्तुतिभिश्च परन्तपः ॥ ९ ॥

अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।
मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥ १० ॥

न नूनं दैवतं किञ्चित् कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमावेव शयीत सः ॥ ११ ॥

विदेहराजस्य सुता सीता च प्रियदर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ १२ ॥

इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् ।
स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ॥ १३ ॥

मन्ये साभरणा सुप्ता सीताऽस्मिन् शयनोत्तमे ।
तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥ १४ ॥

उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा ।
तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ १५ ॥

मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुह्खं न विजानाति मैथिली ॥ १६ ॥

हा हन्ताऽस्मि नृशंसोऽहं यत्सभार्यः कृतेमम ।
ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत् ॥ १७ ॥

सार्वभौमकुले जातः सर्वलोकस्य सम्मतः ।
सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ॥ १८ ॥

कथमिन्दीवर श्यामो रक्ताक्षः प्रियदर्शनः ।
सुख भागी च दुःखार्हः शयितो भुवि राघवः ॥ १९ ॥

धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः ।
भ्रातरं विषमे काले यो राममनुवर्तते ॥ २० ॥

सिद्धार्था खलु वैदेही पतिं याऽनुगता वनम् ।
वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ २१ ॥

अकर्णधारा पृथिवी शून्येव प्रतिभाति मा ।
गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ॥ २२ ॥

न च प्रार्थयते कच्चित् मनसाऽपि वसुन्धराम् ।
वनेऽपि वसतस्तस्य बाहु वीर्याभिरक्षिताम् ॥ २३ ॥

शून्यसंवरणा रक्षामयन्त्रित हयद्विपाम् ।
अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ २४ ॥

अप्रहृष्ट बलां शून्यां विषमस्थामनावृताम् ।
शत्रवो नाभिमन्यन्ते भक्ष्यान्विषकृतानिव ॥ २५ ॥

अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ।
फल मूलाशनो नित्यं जटाचीराणि धारयन् ॥ २६ ॥

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।
तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ २७ ॥

वसन्तं भ्रातुरर्थाय शत्रुघ्नो माऽनुवत्स्यति ।
लक्ष्मणेन सहत्वार्यो अयोध्यां पालयिष्यति ॥ २८ ॥

अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः ।
अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ २९ ॥

प्रसाद्यमानः शिरसा मया स्वयम्
बहु प्रकारं यदि नभिपत्स्यते ।
ततोऽनुवत्स्यामि चिराय राघवम्
वनेचरन्नार्हति मामुपेक्षितुम् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥

अयोध्याकाण्ड एकोननवतितमः सर्गः (८९) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed