Ayodhya Kanda Sarga 75 – अयोध्याकाण्ड पञ्चसप्ततितमः सर्गः (७५)



॥ भरतशपथः ॥

दीर्घकालात्समुत्थाय सञ्ज्ञां लब्ध्वा च वीर्यवान् ।
नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम् ॥ १ ॥

सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।
राज्यं न कामये जातु मन्त्रये नापि मातरम् ॥ २ ॥

अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः ।
विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम् ॥ ३ ॥

वनवासं न जानामि रामस्याहं महात्मनः ।
विवासनं वा सौमित्रेः सीतायाश्च यथाऽभवत् ॥ ४ ॥

तथैव क्रोशतस्तस्य भरतस्य महात्मनः ।
कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ॥ ५ ॥

आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।
तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥ ६ ॥

एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा ।
प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥ ७ ॥

स तु रामानुजश्चापि शत्रुघ्न सहितस्तदा ।
प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥ ८ ॥

ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ ।
पर्यष्वजेतां दुःखार्तां पतितां नष्ट चेतनाम् ॥ ९ ॥

रुदन्तौ रुदतीं दुःखात्समेत्यार्यां मनस्विनीम् ।
भरतं प्रत्युवाचेदं कौसल्या भृश दुःखिता ॥ १० ॥

इदं ते राज्य कामस्य राज्यं प्राप्तमकण्टकम् ।
सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥ ११ ॥

प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ।
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी ॥ १२ ॥

क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति ।
हिरण्यनाभो यत्रास्ते सुतः मे सुमहा यशाः ॥ १३ ॥

अथवा स्वयमेवाहं सुमित्रानुचरा सुखम् ।
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ॥ १४ ॥

कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि ।
यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः ॥ १५ ॥

इदं हि तव विस्तीर्णं धनधान्यसमाचितम् ।
हस्त्वश्वरथसम्पूर्णं राज्यं निर्यातितं तया ॥ १६ ॥

इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्सितोऽनघः ।
विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना ॥ १७ ॥

पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।
विलप्य बहुधाऽसञ्ज्ञो लब्दसञ्ज्ञस्ततः स्थितः ॥ १८ ॥

एवं विलपमानां तां भरतः प्राञ्जलिस्तदा ।
कौसल्यां प्रत्युवाचेदं शोकैः बहुभिरावृताम् ॥ १९ ॥

आर्ये कस्मादजानन्तं गर्हसे मामकिल्भिषम् ।
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे ॥ २० ॥

कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन ।
सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः ॥ २१ ॥

प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु ।
हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः ॥ २२ ॥

कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् ।
अधर्मः योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ २३ ॥

परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।
ततस्तं द्रुह्यतां पापं यस्यार्योऽनुमते गतः ॥ २४ ॥

बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ।
अधर्मः योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ २५ ॥

संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् ।
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥ २६ ॥

हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले ।
मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः ॥ २७ ॥

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥ २८ ॥

मा च तं व्यूढबाह्वंसं चन्द्रार्कसमतेजनम् ।
द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमते गतः ॥ २९ ॥

पायसं कृसरं चागं वृथा सोऽश्नातु निर्घृणः ।
गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥ ३० ॥

गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।
मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः ॥ ३१ ॥

विश्वासात्कथितं किञ्चित्परिवादं मिथः क्वचित् ।
विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ॥ ३२ ॥

अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।
लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥ ३३ ॥

पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः ।
सैको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥ ३४ ॥

अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।
अनवाप्य क्रियां धर्म्यां यस्यार्योऽनुमते गतः ॥ ३५ ॥

मात्मनः सन्ततिं द्राक्षीत्स्वेषु दारेषु दुःखितः ।
आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥ ३६ ॥

राज स्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ ३७ ॥

लाक्षया मधुमांसेन लोहेन च विषेण च ।
सदैव बिभृयाद्भृत्यान् यस्यार्योऽनुमते गतः ॥ ३८ ॥

सङ्ग्रामे समुपोढे स्म शत्रुपक्षभयङ्करे ।
पलायामानो वध्येत यस्यार्योऽनुमते गतः ॥ ३९ ॥

कपालपाणिः पृथिवीमटतां चीरसंवृतः ।
भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः ॥ ४० ॥

मद्ये प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।
कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥ ४१ ॥

मा स्म धर्मे मनो भूयादधर्मं सुनिषेवताम् ।
अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥ ४२ ॥

सञ्चितान्यस्य वित्तानि विविधानि सहस्रशः ।
दस्युभिर्विप्रलुप्यन्तां यश्यार्योऽनुमते गतः ॥ ४३ ॥

उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते ।
तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः ॥ ४४ ॥

यदग्निदायके पापं यत्पापं गुरुतल्पगे ।
मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ ४५ ॥

देवतानां पितॄणां च मातापित्रोस्तथैव च ।
मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ॥ ४६ ॥

सतां लोकात्सतां कीर्त्याः सञ्ज्जुष्टात् कर्मणस्तथा ।
भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ॥ ४७ ॥

अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।
दीर्घबाहुर्महावक्षाः यस्यार्योऽसुमते गतः ॥ ४८ ॥

बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।
स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥ ४९ ॥

आशामाशं समानानां दीनानामूर्ध्वचक्षुषाम् ।
आर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः ॥ ५० ॥

मायया रमतां नित्यं परुषः पिशुनोऽशुचिः ।
राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥ ५१ ॥

ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम् ।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥ ५२ ॥

धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥ ५३ ॥

विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् ।
तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ ५४ ॥

पानीयदूषके पापं तथैव विषदायके ।
यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ॥ ५५ ॥

ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः ।
बालवत्सां च गां दोग्दुः यस्यर्योऽनुमते गतः ॥ ५६ ॥

तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत् ।
लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः ॥ ५७ ॥

भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥ ५८ ॥

विहीनां पति पुत्राभ्यां कौसल्यां पार्थिवात्मजः ।
एवमाश्वासयन्नेव दुःखार्तो निपपात ह ॥ ५९ ॥

तथा तु शपथैः कष्टैः शपमानमचेतनम् ।
भरतं शोक सन्तप्तं कौसल्या वाक्यमब्रवीत् ॥ ६० ॥

मम दुःखमिदं पुत्र भूयः समुपजायते ।
शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥ ६१ ॥

दिष्ट्या न चलितो धर्मात् आत्मा ते सहलक्ष्मणः ।
वत्स सत्य प्रतिज्ञो मे सतां लोकमवाप्स्यसि ॥ ६२ ॥

इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम् ।
परिष्वज्य महाबाहुं रुरोद भृशदुःखिता ॥ ६३ ॥

एवं विलपमानस्य दुःखार्तस्य महात्मनः ।
मोहाच्च शोक संरोधात् बभूव लुलितं मनः ॥ ६४ ॥

लालप्यमानस्य विचेतनस्य
प्रणष्टबुद्धेः पतितस्य भूमौ ।
मुहुर्मुहुर्निश्श्वसतश्च घर्मम्
सा तस्य शोकेन जगाम रात्रिः ॥ ६५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

अयोध्याकाण्ड षट्सप्ततितमः सर्गः (७६)>>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed