Ayodhya Kanda Sarga 72 – अयोध्याकाण्ड द्विसप्ततितमः सर्गः (७२)


॥ भरतसन्तापः ॥

अपश्यंस्तु ततस्तत्र पितरं पितुरालये ।
जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ १ ॥

अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम् ॥ २ ॥

स प्रविश्यैव धर्मात्मा स्व गृहं श्रीविवर्जितम् ।
भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ ३ ॥

सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् ।
अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ ४ ॥

अद्य ते कतिचिद्रात्र्यश्च्युतस्याऽर्यक वेश्मनः ।
अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ ५ ॥

आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव ।
प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ॥ ६ ॥

एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिव नन्दनः ।
आचष्ट भरतः सर्वं मात्रे राजीवलोचनः ॥ ७ ॥

अद्य मे सप्तमी रात्रिश्च्युतस्यार्यक वेश्मनः ।
अम्बायाः कुशली तातः युधाजिन्मातुलश्च मे ॥ ८ ॥

यन्मे धनं च रत्नं च ददौ राजा परन्तपः ।
परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः ॥ ९ ॥

राजवाक्यहरैर्दूतैः त्वर्यमाणोऽहमागतः ।
यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि ॥ १० ॥

शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः ।
न चायमिक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥ ११ ॥

राजा भवति भूयिष्ठमिहाम्बाया निवेशने ।
तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ॥ १२ ॥

पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः ।
आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥ १३ ॥

तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् ।
अजानन्तं प्रजानन्ती राज्य लोभेन मोहिता ॥ १४ ॥

या गतिः सर्वभूतानां तां गतिं ते पिता गतः ।
राजा महात्मा तेजस्वी यायजूकः सतां गतिः ॥ १५ ॥

तच्छ्रुत्वा भरतः वाक्यं धर्माभिजनवान् शुचिः ।
पपात सहसा भूमौ पितृशोकबलार्दितः ॥ १६ ॥

हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन् ।
निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥ १७ ॥

ततः शोकेन संवीतः पितुर्मरण दुःखितः ।
विललाप महातेजाः भ्रान्ताकुलित चेतनः ॥ १८ ॥

एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा ।
शशिनेवामलं रात्रौ गगनं तोयदात्यये ॥ १९ ॥

तदिदं न विभात्यद्य विहीनं तेन धीमता ।
व्योमेव शशिना हीनमप्छुष्क इव सागरः ॥ २० ॥

बाष्पमुत्सृज्य कण्ठेन स्वार्तः परिपीडितः ।
प्रच्छाद्य वदनं श्रीमद्वस्त्रेण जयतां वरः ॥ २१ ॥

तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि ।
निकृत्तमिव सालस्य स्कन्धं परशुना वने ॥ २२ ॥

मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं भुवः ।
उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ॥ २३ ॥

उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः ।
त्वद्विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥ २४ ॥

दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।
बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥ २५ ॥

स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च ।
जननीं प्रत्युवाचेदं शोकैः बहुभिरावृतः ॥ २६ ॥

अभिषेक्ष्यति रामं नु राजा यज्ञं नु यक्ष्यते ।
इत्यहं कृतसङ्कल्पो हृष्टः यात्रामयासिषम् ॥ २७ ॥

तदिदं ह्यन्यथाभूतं व्यवदीर्णं मनो मम ।
पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥ २८ ॥

अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते ।
धन्या रामादयः सर्वे यैः पिता संस्कृतस्स्वयम् ॥ २९ ॥

न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।
उपजिघ्रेद्धि मां मूर्ध्नि तात सन्नम्य सत्वरम् ॥ ३० ॥

क्व स पाणिः सुख स्पर्शस्तातस्याक्लिष्ट कर्मणः ।
येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥ ३१ ॥

यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः ।
तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः ॥ ३२ ॥

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ॥ ३३ ॥

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः ॥ ३४ ॥

पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः ।
इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥ ३५ ॥

रामेति राजा विलपन् हा सीते लक्ष्मणेति च ।
स महात्मा परं लोकं गतः गतिमतां वरः ॥ ३६ ॥

इमां तु पश्चिमां वाचं व्याजहार पिता तव ।
कालधर्मपरिक्षिप्तः पाशैरिव महागजः ॥ ३७ ॥

सिद्धार्थास्ते नरा राममागतं सीतया सह ।
लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ ३८ ॥

तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् ।
विषण्ण वदनो भूत्वा भूयः पप्रच्छ मातरम् ॥ ३९ ॥

क्व चेदानीं स धर्मात्मा कौसल्याऽऽनन्दवर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥ ४० ॥

तथा पृष्टा यथा तत्त्वमाख्यातुमुपचक्रमे ।
मातास्य युगपद्वाक्यं विप्रियं प्रिय शङ्कया ॥ ४१ ॥ [सुमहद्वाक्यं]

स हि राजसुतः पुत्र चीरवासा महावनम् ।
दण्डकान् सह वैदेह्या लक्ष्मणानुचरः गतः ॥ ४२ ॥

तच्छ्रुत्वा भरतस्त्रस्तः भ्रातुश्चारित्रशङ्कया ।
स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ॥ ४३ ॥

कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् ।
कच्चिन्नाढ्यो दरिद्रः वा तेनापापो विहिंसितः ॥ ४४ ॥

कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते ।
कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः ॥ ४५ ॥

अथास्य चपला माता तत्स्वकर्म यथातथम् ।
तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ ४६ ॥

एवमुक्ता तु कैकेयी भरतेन महात्मना ।
उवाच वचनं हृष्टा मूढा पण्डितमानिनी ॥ ४७ ॥

न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् ।
कश्चिन्नाढ्यो दरिद्रः वा तेनापापो विहिंसितः ॥ ४८ ॥

न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति ।
मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ॥ ४९ ॥

याचितस्ते पिता राज्यं रामस्य च विवासनम् ।
स स्ववृत्तिं समास्थाय पिता ते तत्तथाऽकरोत् ॥ ५० ॥

रामश्च सह सौमित्रिः प्रेषितः सह सीतया ।
तमपश्यन् प्रियम्पुत्रं महीपालो महायशाः ॥ ५१ ॥

पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् ।
त्वयात्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् ॥ ५२ ॥

त्वत्कृते हि मया सर्वमिदमेवं विधं कृतम् ।
मा शोकं मा च सन्तापं धैर्यमाश्रय पुत्रक ।
त्वदधीना हि नगरी राज्यं चैतदनामयम् ॥ ५३ ॥

तत्पुत्र शीघ्रं विधिना विधिज्ञैः
वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः ।
सङ्काल्य राजानमदीन सत्त्वम्
आत्मानमुर्व्यामभिषेचयस्व ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥

अयोध्याकाण्ड त्रिसप्ततितमः सर्गः (७३) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed