Ayodhya Kanda Sarga 63 – अयोध्याकाण्ड त्रिषष्ठितमः सर्गः (६३)


॥ ऋषिकुमारवधाख्यानम् ॥

प्रतिबुद्धो मुहुर्तेन शोकोपहत चेतनः ।
अथ राजा दशरथः सचिन्तामभ्यपद्यत ॥ १ ॥

राम लक्ष्मणयोश्चैव विवासाद्वासवोपमम् ।
आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ २ ॥

सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः ।
विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः ॥ ३ ॥

स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम् ।
अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् ॥ ४ ॥

स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः ।
कौसल्यां पुत्र शोकार्तामिदं वचनमब्रवीत् ॥ ५ ॥

यदाचरति कल्याणि शुभं वा यदि वाऽशुभम् ।
तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥ ६ ॥

गुरु लाघवमर्थानामारम्भे कर्मणां फलम् ।
दोषं वा यो न जानाति स बालैति होच्यते ॥ ७ ॥

कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति ।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ ८ ॥

अविज्ञाय फलं यो हि कर्म त्वेवानुधावति ।
स शोचेत्फलवेलायां यथा किंशुकसेचकः ॥ ९ ॥

सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् ।
रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ १० ॥

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ ११ ॥

तदिदं मेऽनुसम्प्राप्तं देवि दुःखं स्वयं कृतम् ।
सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम् ॥ १२ ॥

यथाऽन्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत् ।
एवं ममाऽप्यविज्ञातं शब्द वेध्यमयं फलम् ॥ १३ ॥

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ।
ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी ॥ १४ ॥

उपास्यहि रसान् भौमान् तप्त्वा च जगदंशुभिः ।
परेताचरितां भीमां रविराविशते दिशम् ॥ १५ ॥

उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः ।
ततः जहृषिरे सर्वे भेकसारङ्गबर्हिणः ॥ १६ ॥

क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्रिणः ।
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥ १७ ॥

पतितेनाम्भसाऽऽच्छन्नः पतमानेन चासकृत् ।
आबभौ मत्तसारन्गस्तोय राशिरिवाचलः ॥ १८ ॥

पाण्डुरारुणवर्णानि स्रूतांसि विमलान्यपि ।
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥ १९ ॥

तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी ।
व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम् ॥ २० ॥

निपाने महिषं रात्रौ गजं वाऽभ्यागतं नदीम् ।
अन्यं वा श्वापदं कञ्चित् जिघांसुरजितेन्द्रियः ॥ २१ ॥

अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः ।
अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ २२ ॥

ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् ।
शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ॥ २३ ॥

अमुञ्चं निशितं बाणमहमाशीविषोपमम् ।
तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ॥ २४ ॥

हाहेति पततस्तोये बाणाभिहतमर्मणः ।
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ॥ २५ ॥

कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ।
प्रविविक्तां नदीं रात्रौ उदाहारोऽहमागतः ।
इषुणाऽभिहतः केन कस्य वा किं कृतं मया ॥ २६ ॥

ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः ।
कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ २७ ॥

जटाभारधरस्यैव वल्कलाजिनवाससः ।
को वधेन ममार्थी स्यात् किं वाऽस्यापकृतं मया ॥ २८ ॥

एवं निष्फलमारब्धं केवलानर्थसंहितम् ।
न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ॥ २९ ॥

नहं तथाऽनुशोचामि जीवित क्षयमात्मनः ।
मातरं पितरं चोभौ अनुशोचामि मद्विधे ॥ ३० ॥

तदेतन्मिथुनं वृद्धं चिरकालभृतं मया ।
मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ॥ ३१ ॥

वृद्धौ च माता पितरौ अहं चैकेषुणा हतः ।
केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ ३२ ॥

तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः ।
कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि ॥ ३३ ॥

तस्याहं करुणं श्रुत्वा निशि लालपतो बहु ।
सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः ॥ ३४ ॥

तं देशमहमागम्य दीन सत्त्वः सुदुर्मनाः ।
अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ ३५ ॥

अवकीर्णजटाभारं प्रविद्धकलशोदकम् ।
स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् ॥ ३६ ॥

इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ।
किं तवापकृतं राजन् वने निवसता मया ॥ ३७ ॥

जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया ।
एकेन खलु बाणेन मर्मण्यभिहते मयि ॥ ३८ ॥

द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ।
तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ ॥ ३९ ॥

चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः ।
न नूनं तपसो वाऽस्ति फलयोगः श्रुतस्य वा ॥ ४० ॥

पिता यन्मां न जानाति शयानं पतितं भुवि ।
जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः ॥ ४१ ॥

भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ।
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ॥ ४२ ॥

न त्वामनुदहेत् क्रुद्धो वनं वह्निरिवैधितः ।
इयमेकपदी राजन् यतः मे पितुराश्रमः ॥ ४३ ॥

तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् ।
विशल्यं कुरु मां राजन् मर्म मे निशितः शरः ॥ ४४ ॥

रुणद्धि मृदुसोत्सेधं तीरमम्बु रयो यथा ।
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ॥ ४५ ॥

इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ।
दुःखितस्य च दीनस्य मम शोकातुरस्य च ॥ ४६ ॥

लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ।
ताम्यमानः स मां कृच्छादुवाच परमार्तवत् ॥ ४७ ॥

सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ।
संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् ॥ ४८ ॥

ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ।
न द्विजातिरहं राजन् माभूत्ते मनसो व्यथा ॥ ४९ ॥

शूद्रायामस्मि वैश्येन जातः जनपदाधिप ।
इतीव वदतः कृच्छ्रात् बाणाभिहतमर्मणः ॥ ५० ॥

विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ।
तस्यत्वानम्यमानस्य तं बाणमहमुद्धरम् ॥ ५१ ॥

जलार्द्रगात्रं तु विलप्य कृच्छ्रात्
मर्मव्रणं सन्ततमुच्छ्वसन्तम् ।
ततः सरय्वां तमहं शयानम्
समीक्ष्य भद्रेऽस्मि भृशं विषण्णः ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥ ६३ ॥

अयोध्याकाण्ड चतुःषष्ठितमः सर्गः (६४) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed