Ayodhya Kanda Sarga 12 – अयोध्याकाण्ड द्वादशः सर्गः (१२)


॥ कैकेयीनिवर्तनप्रयासः ॥

ततः शृत्वा महाराजः कैकेय्या दारुणं वचः ।
चिन्तामभिसमापेदे मुहूर्तं प्रतताप च ॥ १ ॥

किं नु मे यदि वा स्वप्नश्चित्तमोहूऽपि वा मम ।
अनुभूतोपसर्गो वा मनसो वाऽप्युपद्रवः ॥ २ ॥

इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदासुखम् ।
प्रतिलभ्य चिरात्सञ्ज्ञां कैकेयीवाक्यतापितः ॥ ३ ॥ [ताडितः]

व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ।
असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ॥ ४ ॥

मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।
अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥ ५ ॥

मोहमापेदिवान्भूयः शोकोपहतचेतनः ।
चिरेण तु नृपः सञ्ज्ञां प्रतिलभ्य सुदुःखितः ॥ ६ ॥

कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥ ७ ॥

किं कृतं तव रामेण पापं पापे मयापिऽवा ।
यदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥ ८ ॥

तस्यैव त्वमनर्थाय किं निमित्तमिहोद्यता ।
त्वं मयाऽऽत्मविनाशार्थं भवनं स्वं प्रवेशिता ॥ ९ ॥

अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ।
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ १० ॥

अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ।
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ॥ ११ ॥

जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम् ।
परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ॥ १२ ॥

अपश्यतस्तु मे रामं नष्टा भवति चेतना ।
तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ॥ १३ ॥

न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ।
तदलं त्यज्यतामेषः निश्चयः पापनिश्चये ॥ १४ ॥

अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।
किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ १५ ॥

अथ जीज्ञाससे मां त्वं भरतस्य प्रियाप्रिये ।
अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ १६ ॥

स मे ज्येष्ठः सुतः श्रीमान्धर्मज्येष्ठ इतीव मे ।
तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ १७ ॥

तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् ।
आविष्टाऽसि गृहं शून्यं सा त्वं परवशं गता ॥ १८ ॥

इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम् ।
अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ १९ ॥

न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम ।
अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ २० ॥

ननु ते राघवस्तुल्यो भरतेन महात्मना ।
बहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ २१ ॥

तस्य धर्मात्मनो देवि वने वासं यशस्विनः ।
कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २२ ॥

अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।
कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २३ ॥

रोचयस्यभिरामस्य रामस्य शुभलोचने ।
तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २४ ॥

रामो हि भरताद्भूयस्तव शुश्रूषते सदा ।
विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २५ ॥

शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् ।
कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ २६ ॥

बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् ।
परिवादोऽपवादो वा राघवे नोपपद्यते ॥ २७ ॥

सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।
गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २८ ॥

सत्येन लोकान् जयति दीनान् दानेन राघवः ।
गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २९ ॥

सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ।
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ ३० ॥

तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।
पापमाशंससे रामे महर्षिसमतेजसि ॥ ३१ ॥

न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।
स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥ ३२ ॥

क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता ।
अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ ३३ ॥

मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।
दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४ ॥

पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते ।
तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ॥ ३५ ॥

अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।
शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥ ३६ ॥

इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् ।
घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ ३७ ॥

पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः ।
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥ ३८ ॥

यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।
धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ ३९ ॥

यदा समेता बहवस्त्वया राजर्षयः सह ।
कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ ४० ॥

यस्याः प्रयत्ने जीवामि या च मामभ्यपालयत् । [प्रसादे]
तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ ४१ ॥

किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप ।
यो दत्वा वरमद्यैव पुनरन्यानि भाषसे ॥ ४२ ॥

शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ ।
अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ ४३ ॥

सागरः समयं कृत्वा न वेलामतिवर्तते ।
समयं माऽनृतं कार्षीः पुर्ववृत्तमनुस्मरन् ॥ ४४ ॥

स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च ।
सह कौलस्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ ४५ ॥

भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम् ।
यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ ४६ ॥

अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥

एकाहमपि पश्येयं यद्यहं राममातरम् ।
अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥

भरतेनात्मना चाहं शपे ते मनुजाधिप ।
यथा नान्येन तुष्येयमृते रामविवासनात् ॥ ४९ ॥

एतावदुक्त्वा वचनं कैकेयी विरराम ह ।
विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥

श्रुत्वा तु राजा कैकेय्या वृतं परमदारुणम् । [परमशोभनम्]
रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ ५१ ॥

नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः ।
प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥

तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् ।
दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ ५३ ॥

स देव्या व्यवसायं च घोरं च शपथं कृतम् ।
ध्यात्वा रामेति निःश्वस्य च्छिन्नस्तरुरिवापतत् ॥ ५४ ॥

नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽतुरः ।
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ ५५ ॥

दीनया तु गिरा राजा इति होवाच कैकयीम् ।
अनर्थमिममर्थाभं केन त्वमुपदर्शिता ॥ ५६ ॥

भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ।
शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ ५७ ॥

बालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ।
कुतो वा ते भयं जातं या त्वमेवं‍विधं वरम् ॥ ५८ ॥

राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।
विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ ५९ ॥

यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ।
नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि ॥ ६० ॥

किं नु दुःखमलीकं वा मयि रामे च पश्यसि ।
न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ॥ ६१ ॥

रामादपि हितं मन्ये धर्मतो बलवत्तरम् ।
कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ॥ ६२ ॥

मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ।
तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ ६३ ॥

कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ।
किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ॥ ६४ ॥

बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ।
यदा तु बहवो वृद्धाः गुणवन्तो बहुश्रुताः ॥ ६५ ॥

परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ।
कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥ ६६ ॥

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ ६७ ॥

किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ।
यदा यदा हि कौसल्या दासीवच्च सखीव च ॥ ६८ ॥

भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।
सततं प्रियकामा मे प्रियपुत्रा प्रियं‍वदा ॥ ६९ ॥

न मया सत्कृता देवि सत्कारार्हा कृते तव ।
इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ॥ ७० ॥

अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ।
विप्रकारं च रामस्य सम्प्रयाणं वनस्य च ॥ ७१ ॥

सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ।
कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ ७२ ॥

मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ।
वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥ ७३ ॥

हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ।
न हि राममहं दृष्ट्वा प्रवसन्तं महावने ॥ ७४ ॥

चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ।
सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ७५ ॥

न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् ॥ ७६ ॥

रूपिणीं विषसम्युक्तां पीत्वेव मदिरां नरः ।
अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे ॥ ७७ ॥

गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ।
अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम् ॥ ७८ ॥

धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ।
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव ॥ ७९ ॥

दुःखमेवं‍विधं प्राप्तं पुराकृतमिवाशुभम् ।
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता ॥ ८० ॥

अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ।
रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ॥ ८१ ॥

बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।
मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ॥ ८२ ॥

तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति ।
बालिशो बत कामात्मा राजा दशरथो भृशम् ॥ ८३ ॥

यः स्त्रीकृते प्रियं पुत्रं वनं प्रस्थापयिष्यति ।
व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः ॥ ८४ ॥

भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ।
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ॥ ८५ ॥

स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।
यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः ॥ ८६ ॥

प्रतिकूलं प्रियं मे स्यात् न तु वत्सः करिष्यति ।
शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः ॥ ८७ ॥

स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ॥ ८८ ॥

मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ।
मृते मयि गते रामे वनं मनुजपुङ्गवे ॥ ८९ ॥

इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ।
कौसल्या मां च रामं च पुत्रौ च यदि हास्यति ॥ ९० ॥

दुःखान्यसहती देवी मामेवानुमरिष्यति ।
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह ॥ ९१ ॥

प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ।
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः ॥ ९२ ॥

इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ।
प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ॥ ९३ ॥

मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः ।
हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥ ९४ ॥

मृते मयि गते रामे वनं पुरुषपुङ्गवे ।
सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ९५ ॥

त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि ।
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥ ९६ ॥

सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः ॥ ९७ ॥

पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ।
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥ ९८ ॥

अहं‍पुर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ।
स कथं नु कषायाणि तिक्तानि कटुकानि च ॥ ९९ ॥

भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति ।
महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः ॥ १०० ॥

काषायपरिधानस्तु कथं भूमौनिवत्स्यति ।
कस्यैतद्दारुणं वाक्यमेवं‍विधमचिन्तितम् ॥ १०१ ॥

रामस्यारण्यगमनं भरतस्याभिषेचनम् ।
धिगस्तु योषितो नाम शठाः स्वार्थपराः सदा ।
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ १०२ ॥

अनर्थभावेऽर्थपरे नृशंसे
ममानुतापाय निविष्टभावे ।
किमप्रियं पश्यसि मन्निमित्तं
हितानुकारिण्यथवाऽपि रामे ॥ १०३ ॥

परित्यजेयुः पितरो हि पुत्रा-
-न्भार्याः पतींश्चापि कृतानुरागाः ।
कृत्स्नं हि सर्वं कुपितं जगत्स्या-
-द्दृष्ट्वैव रामं व्यसने निमग्नम् ॥ १०४ ॥

अहं पुनर्देवकुमाररूप-
-मलङ्कृतं तं सुतमाव्रजन्तम् ।
नन्दामि पश्यन्नपि दर्शनेन
भवामि दृष्ट्वा च पुनर्युवेव ॥ १०५ ॥

विनाऽपि सूर्येण भवेत्प्रवृत्ति-
-रवर्षता वज्रधरेण वाऽपि ।
रामं तु गच्छन्तमितः समीक्ष्य
जीवेन्न कश्चित्त्विति चेतना मे ॥ १०६ ॥

विनाशकामामहिताममित्रा-
-मावासयं मृत्युमिवात्मनस्त्वाम् ।
चिरं बताङ्केन धृतासि सर्पी
महाविषा तेन हतोऽस्मि मोहात् ॥ १०७ ॥

मया च रामेण च लक्ष्मणेन
प्रशास्तु हीनो भरतस्त्वया सह ।
पुरं च राष्ट्रं च निहत्य बान्धवान्
ममाहितानां च भवाभिहर्षिणी ॥ १०८ ॥

नृशंसवृत्ते व्यसनप्रहारिणि
प्रसह्य वाक्यं यदिहाद्य भाषसे ।
न नाम ते केन मुखात्पतन्त्यधो
विशीर्यमाणा दशनाः सहस्रधा ॥ १०९ ॥

न किञ्चिदाहाहितमप्रियं वचो
न वेत्ति रामः परुषाणि भाषितुम् ।
कथं नु रामे ह्यभिरामवादिनि
ब्रवीषि दोषान्गुण नित्यसम्मते ॥ ११० ॥

प्रताम्य वा प्रज्वल वा प्रणश्य वा
सहस्रशो वा स्फुटिता महीं व्रज ।
न ते करिष्यमि वचः सुदारुणं
ममाहितं केकयराजपांसनि ॥ १११ ॥

क्षुरोपमां नित्यमसत्प्रियंवदां
प्रदुष्टभावां स्वकुलोपघातिनीम् ।
न जीवितुं त्वां विषहेऽमनोरमां
दिधक्षमाणां हृदयं सबन्धनम् ॥ ११२ ॥

न जीवितं मेऽस्ति पुनः कुतः सुखं
विनाऽऽत्मजेनाऽत्मवतः कुतो रतिः ।
ममाहितं देवि न कर्तुमर्हसि
स्पृशामि पादावपि ते प्रसीद मे ॥ ११३ ॥

स भूमिपालो विलपन्ननाथवत्
स्त्रिया गृहीतो हृदयेऽतिमात्रया ।
पपात देव्याश्चरणौ प्रसारिता-
-वुभावसंस्पृश्य यथाऽतुरस्तथा ॥ ११४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥ १२ ॥

अयोध्याकाण्ड त्रयोदशः सर्गः (१३) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।

Report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: