Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ शरभङ्गब्रह्मलोकप्रस्थानम् ॥
हत्वा तु तं भीमबलं विराधं राक्षसं वने ।
ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥ १ ॥
अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।
कष्टं वनमिदं दुर्गं न च स्म वनगोचराः ॥ २ ॥
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ।
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥ ३ ॥
तस्य देवप्रभावस्य तपसा भावितात्मनः ।
समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ ४ ॥
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।
अवरुह्य रथोत्सङ्गात्सकाशे विबुधानुगम् ॥ ५ ॥
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ।
सुप्रभाभरणं देवं विरजोम्बरधारिणम् ॥ ६ ॥
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ।
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥ ७ ॥
ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ।
पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम् ॥ ८ ॥
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ।
चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ॥ ९ ॥
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ॥ १० ॥
अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे ।
सह सम्भाषमाणे तु शरभङ्गेन वासवे ॥ ११ ॥
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।
रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥ १२ ॥
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण ।
प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥ १३ ॥
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः ।
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ १४ ॥
इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम् ।
शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥ १५ ॥
विस्तीर्णविपुलोरस्काः परिघायतबाहवः ।
शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः ॥ १६ ॥
उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः ।
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ १७ ॥
एतद्धि किल देवानां वयो भवति नित्यदा ।
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १८ ॥
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ।
यावज्जानाम्यहं व्यक्तं क एष द्युतिमान्रथे ॥ १९ ॥
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ २० ॥
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।
शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥ २१ ॥
इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।
निष्ठां नयतु तावत्तु ततो मां द्रष्टुमर्हति ॥ २२ ॥
[* तावद्गच्छामहे शीघ्रं यावन्मां नाभिभाषते । *]
जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् ।
कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् ॥ २३ ॥
निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ।
इति वज्री तमामन्त्र्य मानयित्वा च तापसम् ॥ २४ ॥
रथेन हरियुक्तेन ययौ दिवमरिन्दमः ।
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदम् ॥ २५ ॥
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ।
तस्य पादौ च सङ्गृह्य रामः सीता च लक्ष्मणः ॥ २६ ॥
निषेदुः समनुज्ञाता लब्धवासा निमन्त्रिताः ।
ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः ॥ २७ ॥
शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ।
मामेष वरदो राम ब्रह्मलोकं निनीषति ॥ २८ ॥
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ।
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ॥ २९ ॥
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ।
त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना ॥ ३० ॥
समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ।
अक्षया नरशार्दूल मया लोका जिताः शुभाः ॥ ३१ ॥
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ।
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ॥ ३२ ॥
ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ।
अहमेवाहरिष्यामि सर्वलोकान्महामुने ॥ ३३ ॥
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ।
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ॥ ३४ ॥
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ।
इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः ॥ ३५ ॥
वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति ।
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ॥ ३६ ॥
रमणीये वनोद्देशे स ते वासं विधास्यति ।
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज ॥ ३७ ॥
नदीं पुष्पोडुपवहां तत्र तत्र गमिष्यसि ।
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ॥ ३८ ॥
यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ।
ततोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित् ॥ ३९ ॥
शरभङ्गो महातेजाः प्रविवेश हुताशनम् ।
तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः ॥ ४० ॥
जीर्णां त्वचं तथास्थीनि यच्च मांसं सशोणितम् ।
रामस्तु विस्मितो भ्रात्रा भार्यया च सहात्मवान् ॥ ४१ ॥
स च पावकसङ्काशः कुमारः समपद्यत ।
उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥ ४२ ॥
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ ४३ ॥
स पुण्यकर्मा भवने द्विजर्षभः
पितामहं सानुचरं ददर्श ह ।
पितामहश्चापि समीक्ष्य तं द्विजं
ननन्द सुस्वागतमित्युवाच ह ॥ ४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥ ५ ॥
सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.