Aranya Kanda Sarga 40 – अरण्यकाण्ड चत्वारिंशः सर्गः (४०)


॥ मायामृगरूपपरिग्रहनिर्बन्धः ॥

मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः ।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ १ ॥

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥ २ ॥

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ।
वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ॥ ३ ॥

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य सम्युगे ।
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ ४ ॥

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ ५ ॥

अवश्यं तु मया तस्य सम्युगे खरघातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥ ६ ॥

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ७ ॥

दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि ।
अपायं वाऽप्युपायं वा कार्यस्यास्य विनिश्चये ॥ ८ ॥

सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यताञ्जलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥ ९ ॥

वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ १० ॥

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते ।
नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ॥ ११ ॥

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ॥ १२ ॥

औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ।
धारयन्ति महात्मानो राजानः क्षणदाचर ॥ १३ ॥

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ॥ १४ ॥

अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ।
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ॥ १५ ॥

मयोक्तं तव चैतावत् सम्प्रत्यमितविक्रम ।
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ॥ १६ ॥

शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ।
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ॥ १७ ॥

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ १८ ॥

त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया ।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ १९ ॥

अपक्रान्ते च काकुत्स्थे दूरं यात्वाप्युदाहर ।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥ २० ॥

तच्छ्रुत्वा रामपदवीं सीताया च प्रचोदितः ।
अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात् ॥ २१ ॥

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।
आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥ २२ ॥

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।
राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥ २३ ॥

गच्छ सौम्य शिवं मार्गं कार्यस्यस्य विवृद्धये ।
अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम् ॥ २४ ॥

प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ।
लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥ २५ ॥

न चेत् करोषि मारीच हन्मि त्वामहमद्य वै ।
एतत्कार्यमवश्यं मे बलादपि करिष्यसि ।
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥ २६ ॥

आसाद्य तं जीवितसंशयस्ते
मृत्युर्ध्रुवो ह्यद्य मया विरुद्ध्य ।
एतद्यथावत्प्रतिगृह्य बुद्ध्या
यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥


सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।


గమనిక: శరన్నవరాత్రుల సందర్భంగా "శ్రీ లలితా స్తోత్రనిధి" మరియు "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకములు కొనుగోలుకు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed