Amnaya Stotram – आम्नाय स्तोत्रम्


चतुर्दिक्षु प्रसिद्धासु प्रसिद्ध्यर्थं स्वनामतः ।
चतुरोथ मठान् कृत्वा शिष्यान्संस्थापयद्विभुः ॥ १ ॥

चकार सञ्ज्ञामाचार्यश्चतुरां नामभेदतः ।
क्षेत्रं च देवतां चैव शक्तिं तीर्थं पृथक्पृथक् ॥ २ ॥

सम्प्रदायं तथाम्नायभेदं च ब्रह्मचारिणाम् ।
एवं प्रकल्पयामास लोकोपकरणाय वै ॥ ३ ॥

दिग्भागे पश्चिमे क्षेत्रं द्वारका शारदामठः ।
कीटवालस्सम्प्रदाय-स्तीर्थाश्रमपदे उभे ॥ ४ ॥

देवस्सिद्धेश्वरश्शक्तिर्भद्रकालीति विश्रुता ।
स्वरूप ब्रह्मचार्याख्य आचार्यः पद्मपादकः ॥ ५ ॥

विख्यातं गोमतीतीर्थं सामवेदश्च तद्गतम् ।
जीवात्म परमात्मैक्यबोधो यत्र भविष्यति ॥ ६ ॥

विख्यातं तन्महावाक्यं वाक्यं तत्त्वमसीति च ।
द्वितीयः पूर्वदिग्भागे गोवर्धनमठः स्मृतः ॥ ७ ॥

भोगवालस्सम्प्रदाय-स्तत्रारण्यवने पदे ।
तस्मिन् देवो जगन्नाथः पुरुषोत्तम सञ्ज्ञितः ॥ ८ ॥

क्षेत्रं च वृषलादेवी सर्वलोकेषु विश्रुता ।
प्रकाश ब्रह्मचारीति हस्तामलक सञ्ज्ञितः ॥ ९ ॥

आचार्यः कथितस्तत्र नाम्ना लोकेषु विश्रुतः ।
ख्यातं महोदधिस्तीर्थं ऋग्वेदस्समुदाहृतः ॥ १० ॥

महावाक्यं च तत्रोक्तं प्रज्ञानं ब्रह्मचोच्यते ।
उत्तरस्यां श्रीमठस्स्यात् क्षेत्रं बदरिकाश्रमम् ॥ ११ ॥

देवो नारायणो नाम शक्तिः पूर्णगिरीति च ।
सम्प्रदायोनन्दवालस्तीर्थं चालकनन्दिका ॥ १२ ॥

आनन्दब्रह्मचारीति गिरिपर्वतसागराः ।
नामानि तोटकाचार्यो वेदोऽधर्वण सञ्ज्ञिकः ॥ १३ ॥

महावाक्यं च तत्रायमात्मा ब्रह्मेति कीर्त्येते ।
तुरीयो दक्षिणस्यां च शृङ्गेर्यां शारदामठः ॥ १४ ॥

मलहानिकरं लिङ्गं विभाण्डकसुपूजितम् ।
यत्रास्ते ऋष्यशृङ्गस्य महर्षेराश्रमो महान् ॥ १५ ॥

वराहो देवता तत्र रामक्षेत्रमुदाहृतम् ।
तीर्थं च तुङ्गभद्राख्यं शक्तिः श्रीशारदेति च ॥ १६ ॥

आचार्यस्तत्र चैतन्य ब्रह्मचारीति विश्रुतः ।
वार्तिकादि ब्रह्मविद्या कर्ता यो मुनिपूजितः ॥ १७ ॥

सुरेश्वराचार्य इति साक्षाद्ब्रह्मावतारकः ।
सरस्वतीपुरी चेति भारत्यारण्यतीर्थकौ ॥ १८ ॥

गिर्याश्रममुखानि स्युस्सर्वनामानि सर्वदा ।
सम्प्रदायो भूरिवालो यजुर्वेद उदाहृतः ॥ १९ ॥

अहं ब्रह्मास्मीति तत्र महावाक्यमुदीरितम् ।
चतुर्णां देवताशक्ति क्षेत्रनामान्यनुक्रमात् ॥ २० ॥

महावाक्यानि वेदांश्च सर्वमुक्तं व्यवस्थया ।
इति श्रीमत्परमहंसपरिव्राजकभूपतेः ॥ २१ ॥

अम्नायस्तोत्र पठनादिहामुत्र च सद्गतिम् ।
प्राप्त्यान्ते मोक्षमाप्नोति देहान्ते नाऽत्र संशयः ॥ २२ ॥

इत्याम्नायस्तोत्रम् ।


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed