Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारायणीयं पञ्चाशीतितमदशकम् (८५) – जरासन्धवध तथा शिशुपालवध
ततो मगधभूभृता चिरनिरोधसङ्क्लेशितं
शताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुषं प्राहिणो-
-दयाचत स मागधक्षपणमेव किं भूयसा ॥ ८५-१ ॥
यियासुरभिमागधं तदनु नारदोदीरिता-
-द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ ८५-२ ॥
अशेषदयितायुते त्वयि समागते धर्मजो
विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
भवन्तमयि मागधे प्रहितवान् सभीमार्जुनम् ॥ ८५-३ ॥
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो
ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन सङ्ग्रामयन्
निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थितः ॥ ८५-४ ॥
अशान्तसमरोद्धतं विटपपाटनासञ्ज्ञया
निपात्य जरसः सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां
दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ८५-५ ॥
प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
प्रसन्नभृतकीभवत् सकलराजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावनेजादिकं
चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ८५-६ ॥
ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं
विचार्य सहदेववागनुगतः स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥ ८५-७ ॥
ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासना-
-दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८५-८ ॥
निवार्य निजपक्षगानभिमुखस्यविद्वेषिण-
-स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी-
-स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ८५-९ ॥
ततः सुमहिते त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया
मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ ८५-१० ॥
तदा हसितमुत्थितं द्रुपदनन्दनाभीमयो-
-रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥ ८५-११ ॥
इति पञ्चाशीतितमदशकं समाप्तम् ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

