Narayaneeyam Dasakam 84 – नारायणीयं चतुरशीतितमदशकम्



नारायणीयं चतुरशीतितमदशकम् (८४) – समन्तपञ्चकतीर्थयात्रा – बन्धुमित्रादि समागमम्

क्वचिदथ तपनोपरागकाले
पुरि निदधत्कृतवर्मकामसूनू ।
यदुकुलमहिलावृतः सुतीर्थं
समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ ८४-१ ॥

बहुतरजनताहिताय तत्र
त्वमपि पुनन् विनिमज्ज्य तीर्थतोयम् ।
द्विजगणपरिमुक्तवित्तराशिः
सममिलथाः कुरुपाण्डवादिमित्रैः ॥ ८४-२ ॥

तव खलु दयिताजनैः समेता
द्रुपदसुता त्वयि गाढभक्तिभारा ।
तदुदितभवदाहृतिप्रकारै-
रतिमुमुदे सममन्यभामिनीभिः ॥ ८४-३ ॥

तदनु च भगवन् निरीक्ष्य गोपा-
-नतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखाः
पशुपवधूः सरसं त्वमन्वयासीः ॥ ८४-४ ॥

सपदि च भवदीक्षणोत्सवेन
प्रमुषितमानहृदां नितम्बिनीनाम् ।
अतिरसपरिमुक्तकञ्चुलीके
परिचयहृद्यतरे कुचे न्यलैषीः ॥ ८४-५ ॥

रिपुजनकलहैः पुनः पुनर्मे
समुपगतैरियती विलम्बनाऽभूत् ।
इति कृतपरिरम्भणे त्वयि द्रा-
-गतिविवशा खलु राधिका निलिल्ये ॥ ८४-६ ॥

अपगतविरहव्यथास्तदा ता
रहसि विधाय ददाथ तत्त्वबोधम् ।
परमसुखचिदात्मकोऽहमात्मे-
-त्युदयतु वः स्फुटमेव चेतसीति ॥ ८४-७ ॥

सुखरसपरिमिश्रितो वियोगः
किमपि पुराऽभवदुद्धवोपदेशैः ।
समभवदमुतः परं तु तासां
परमसुखैक्यमयी भवद्विचिन्ता ॥ ८४-८ ॥

मुनिवरनिवहैस्तवाथ पित्रा
दुरितशमाय शुभानि पृच्छ्यमानैः ।
त्वयि सति किमिदं शुभान्तरैरि-
-त्युरुहसितैरपि याजितस्तदासौ ॥ ८४-९ ॥

सुमहति यजने वितायमाने
प्रमुदितमित्रजने सहैव गोपाः ।
यदुजनमहितास्त्रिमासमात्रं
भवदनुषङ्गरसं पुरेव भेजुः ॥ ८४-१० ॥

व्यपगमसमये समेत्य राधां
दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदयः पुरं प्रयातः
पवनपुरेश्वर पाहि मां गदेभ्यः ॥ ११ ॥

इति चतुरशीतितमदशकं समाप्तम् ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed