Trucha Kalpa Surya Namaskara Krama – तृचाकल्प सूर्य नमस्कार क्रमः



आचम्य । प्राणानायम्य । देशकालौ संकीर्त्य । गणपति पूजां कृत्वा ।

संकल्पः –
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थं श्रीसवितृसूर्यनारायण प्रीत्यर्थं भविष्योत्तरपुराणोक्त तृचकल्पविधिना एकावृत्त्या नमस्काराख्यं कर्म करिष्ये ॥

ध्यानम् –
ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यं प्रणामोऽष्टांग उच्यते ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओं । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रीं ओं । रवये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हृ॒द्रो॒गं मम॑ सूर्य ह्रूं ओं । सूर्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं हरि॒माणं᳚ च नाशय ह्रैं ओं । भानवे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओं । खगाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओं । पूष्णे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओं । हिरण्यगर्भाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रीं हरि॒माणं॒ निद॑ध्मसि ह्रीं ओं । मरीचये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओं । आदित्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रैं विश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओं । सवित्रे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्न्॑ ह्रौं ओं । अर्काय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ ११ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रः मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रः ओं । भास्कराय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १२ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ह्रां ह्रीं ओं । मित्ररविभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १३ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं हैं हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ह्रूं ह्रैं ओं । सूर्यभानुभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १४ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओं । खगपूषभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १५ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ह्रां ह्रीं ओं । हिरण्यगर्भमरीचिभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १६ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओं । आदित्यसवितृभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १७ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ह्रौं ह्रः ओं । अर्कभास्कराभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १८ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओं । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ १९ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओं । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २० ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओं । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २१ ॥

ओं भूर्भुव॒स्सुव॑: । ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ।
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ।
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ओं । मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ मरीच्यादित्यसवित्रर्क भास्करेभ्यो नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ २२, २३, २४ ॥ (इति त्रिः)

अनेन मया कृत तृचाकल्पनमस्कारेण भगवान् सर्वात्मकः श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवंतु ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed