Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
भगवन् करुणाम्भोधे शास्त्रान् भो निधिपारगः ।
त्रैलोक्यसारयेत्तत्त्वं जगद्रक्षणकारकः ॥ १ ॥
भद्रकाल्या महादेव्याः कवचं मन्त्रगर्भकम् ।
जगन्मङ्गलदं नाम वद शम्भो दयानिधे ॥ २ ॥
श्रीभैरव उवाच ।
भैं भद्रकालीकवचं जगन्मङ्गलनामकम् ।
गुह्यं सनातनं पुण्यं गोपनीयं विशेषतः ॥ ३ ॥
जगन्मङ्गलनाम्नोऽस्य कवचस्य ऋषिः शिवः ।
उष्णिक्छन्दः समाख्यातं देवता भद्रकालिका ॥ ४ ॥
भैं बीजं हूं तथा शक्तिः स्वाहा कीलकमुच्यते ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ ५ ॥
अस्य श्रीजगन्मङ्गलनाम्नो भद्रकाली कवचस्य शिव ऋषिः उष्णिक् छन्दः श्रीभद्रकाली देवता भैं बीजं हूं शक्तिः स्वाहा कीलकं धर्मार्थकाममोक्षार्थे कवच पाठे विनियोगः ।
अथ ध्यानम् ।
उद्यच्चन्द्रकलावतंसित शिखां क्रीङ्कारवर्णोज्ज्वलां
श्यामां श्याममुखीं रवीन्दुनयनां हूंवर्णरक्ताधराम् ।
भैं बीजाङ्कित मानसां शवगतां नीलाम्बरोद्भासितां
स्वाहालङ्कृत सर्वगात्रलतिकां भैं भद्रकालीं भजे ॥
अथ कवचम् ।
ओम् । भैं पातु मे शिरो नित्यं देवी भैं भद्रकालिका ।
ललाटं क्रीं सदा पातु महारत्नेश्वरी तथा ॥ १ ॥
क्रीं भ्रुवौ पातु मे नित्यं महाकामेश्वरी तथा ।
नेत्रेव्यात् क्रीं च मे नित्यं नित्यानन्दमयी शिवा ॥ २ ॥
गण्डौ मे पातु भैं नित्यं सर्वलोकमहेश्वरी ।
श्रुती ह्रीं पातु मे नित्यं सर्वमङ्गलमङ्गला ॥ ३ ॥
नासां ह्रीं पातु मे नित्यं महात्रिभुवनेश्वरी ।
अधरे हूं सदाव्यान्मे सर्वमन्त्रमयी तथा ॥ ४ ॥
जिह्वां क्रीं मे सदा पातु विशुद्धेश्वररूपिणी ।
भैं ह्रीं ह्रीं मे दन्तान् पातु नित्या क्रीं कुलसुन्दरी ॥ ५ ॥ [रदान्]
ह्रीं हूं क्रीं मे गलं पातु ज्वालामण्डलमण्डना ।
ह्रीं हूं क्रीं मे भुजौ पातु भवमोक्षप्रदाम्बिका ॥ ६ ॥
ह्रीं हूं क्रीं मे करौ पातु सर्वानन्दमयी तथा ।
स्तनौ क्रीं हूं सदा पातु नित्या नीलपताकिनी ॥ ७ ॥
क्रीं भैं ह्रीं मम वक्षोव्यात् ब्रह्मविद्यामयी शिवा ।
भैं कुक्षिं मे सदा पातु महात्रिपुरसुन्दरी ॥ ८ ॥
ऐं सौः भैं पातु मे पार्श्वौ विद्या चतुर्दशात्मिका ।
ऐं क्लीं भैं पातु मे पृष्ठं सर्वमन्त्रविभूषिता ॥ ९ ॥
ओं क्रीं ऐं सौः सदाव्यान्मे नाभिं भैं बैन्दवेश्वरी ।
ओं ह्रीं हूं पातु शिश्नं मे देवता भगमालिनी ॥ १० ॥
ह्रीं ह्रीं ह्रीं मे कटिं पातु देवता भगरूपिणी ।
हूं हूं भैं भैं सदाव्यान्मे देवी ब्रह्मस्वरूपिणी ॥ ११ ॥
ओं क्रीं हूं पातु मे जानू महात्रिपुरभैरवी ।
ओं क्रीं ऐं सौः पातु जङ्घे बाला श्रीत्रिपुरेश्वरी ॥ १२ ॥
गुल्फौ मे क्रीं सदा पातु शिवशक्तिस्वरूपिणी ।
क्रीं ऐं सौः पातु मे पादौ पायात् श्रीकुलसुन्दरी ॥ १३ ॥
भैं क्रीं हूं श्रीं सदा पातु पादाधः कुलशेखरा ।
ओं क्रीं हूं श्रीं सदाव्यान्मे पादपृष्ठं महेश्वरी ॥ १४ ॥
क्रीं हूं श्रीं भैं वपुः पायात् सर्वं मे भद्रकालिका ।
क्रीं ह्रीं ह्रीं पातु मां प्रातर्देवेन्द्री वज्रयोगिनी ॥ १५ ॥
हूं भैं मां पातु मध्याह्ने नित्यमेकादशाक्षरी ।
ओं ऐं सौः पातु मां सायं देवता परमेश्वरी ॥ १६ ॥
निशादौ क्रीं च मां पातु देवी श्रीषोडशाक्षरी ।
अर्धरात्रे च मां पातु क्रीं हूं भैं छिन्नमस्तका ॥ १७ ॥
निशावसानसमये पातु मां क्रीं च पञ्चमी ।
पूर्वे मां पातु श्रीं ह्रीं क्लीं राज्ञी राज्यप्रदायिनी ॥ १८ ॥
ओं ह्रीं हूं मां पश्चिमेव्यात्सर्वदा तत्त्वरूपिणी ।
ऐं सौः मां दक्षिणे पातु देवी दक्षिणकालिका ॥ १९ ॥
ऐं क्लीं मामुत्तरे पातु राजराजेश्वरी तथा ।
व्रजन्तं पातु मां श्रीं हूं तिष्ठन्तं क्रीं सदावतु ॥ २० ॥
प्रबुधं हूं सदा पातु सुप्तं मां पातु सर्वदा ।
आग्नेये क्रीं सदा पातु नैरृत्ये हूं तथावतु ॥ २१ ॥
वायव्ये क्रीं सदा पायादैशान्यां भैं सदावतु ।
उर्ध्वं क्रीं मां सदा पातु ह्यधस्तात् ह्रीं तथैव तु ॥ २२ ॥
चौरतोयाग्निभीतिभ्यः पायान्मां श्रीं शिवेश्वरी ।
यक्षभूतपिशाचादि राक्षसेभ्योवतात्सदा ॥ २३ ॥
ऐं क्लीं सौः हूं च मातङ्गी चोच्छिष्ठपदरूपिणी ।
दैत्यभूचरभीतिभ्योऽवताद्द्वाविंशदक्षरी ॥ २४ ॥
विस्मरितं तु यत् स्थानं यत् स्थानं नामवर्जितम् ।
तत्सर्वं पातु मे नित्यं देवी भैं भद्रकालिका ॥ २५ ॥
इतीदं कवचं देवि सर्वमन्त्रमयं परम् ।
जगन्मङ्गलनामेदं रहस्यं सर्वकामिकम् ॥ २६ ॥
रहस्याति रहस्यं च गोप्यं गुप्ततरं कलौ ।
मन्त्रगर्भं च सर्वस्वं भद्रकाल्या मयास्मृतम् ॥ २७ ॥
अद्रष्टव्यमवक्तव्यं अदातव्यमवाचिकम् ।
दातव्यमभक्तेभ्यो भक्तेभ्यो दीयते सदा ॥ २८ ॥
अश्रोतव्यमिदं वर्म दीक्षाहीनाय पार्वति ।
अभक्तेभ्योपिपुत्रेभ्यो दत्वा नरकमाप्नुयात् ॥ २९ ॥
महादारिद्र्यशमनं महामङ्गलवर्धनम् ।
भूर्जत्वचि लिखेद्देवि रोचना चन्दनेन च ॥ ३० ॥
श्वेतसूत्रेण संवेष्ट्य धारयेन्मूर्ध्नि वा भुजे ।
मूर्ध्नि धृत्वा च कवचं त्रैलोक्यविजयं भवेत् ॥ ३१ ॥
भुजे धृत्वा रिपून् राजा जित्वा जयमवाप्नुयात् ।
इतीदं कवचं देवि मूलमन्त्रैकसाधनम् ।
गुह्यं गोप्यं परं पुण्यं गोपनीयं स्वयोनिवत् ॥ ३२ ॥
इति श्रीभैरवीतन्त्रे श्री भद्रकाली कवचम् ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

