Sri Sudarshana Ashtottara Shatanama Stotram – श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रम्



सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।
सहस्रबाहुर्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥ १ ॥

अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।
सौदामिनीसहस्राभो मणिकुण्डलशोभितः ॥ २ ॥

पञ्चभूतमनोरूपो षट्कोणान्तरसंस्थितः ।
हरान्तःकरणोद्भूतरोषभीषणविग्रहः ॥ ३ ॥

हरिपाणिलसत्पद्मविहारारमनोहरः ।
श्राकाररूपः सर्वज्ञः सर्वलोकार्चितप्रभुः ॥ ४ ॥

चतुर्दशसहस्रारः चतुर्वेदमयोऽनलः ।
भक्तचान्द्रमसज्योतिः भवरोगविनाशकः ॥ ५ ॥

रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः ।
सर्वदैत्यग्रीवनालविभेदनमहागजः ॥ ६ ॥

भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा त्रिलोचनः ।
नीलवर्त्मा नित्यसुखो निर्मलश्रीर्निरञ्जनः ॥ ७ ॥

रक्तमाल्याम्बरधरो रक्तचन्दनरूषितः ।
रजोगुणाकृतिः शूरो रक्षःकुलयमोपमः ॥ ८ ॥

नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः ।
नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥ ९ ॥

बलिनन्दनदोर्दण्डखण्डनो विजयाकृतिः ।
मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥ १० ॥

रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् ।
हरिमायागुणोपेतो अव्ययोऽक्षस्वरूपभाक् ॥ ११ ॥

परमात्मा परञ्ज्योतिः पञ्चकृत्यपरायणः ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयः ॥ १२ ॥

सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः ।
जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥ १३ ॥

मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः ।
बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥ १४ ॥

मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः ।
स्रष्टा क्रियास्पदः शुद्धः आधारश्चक्ररूपकः ॥ १५ ॥

निरायुधो ह्यसंरम्भः सर्वायुधसमन्वितः ।
ओङ्काररूपी पूर्णात्मा आङ्कारःसाध्यबन्धनः ॥ १६ ॥

ऐङ्कारो वाक्प्रदो वाग्मी श्रीङ्कारैश्वर्यवर्धनः ।
क्लीङ्कारमोहनाकारो हुम्फट्‍क्षोभणाकृतिः ॥ १७ ॥

इन्द्रार्चितमनोवेगो धरणीभारनाशकः ।
वीराराध्यो विश्वरूपो वैष्णवो विष्णुरूपकः ॥ १८ ॥

सत्यव्रतः सत्यपरः सत्यधर्मानुषङ्गकः ।
नारायणकृपाव्यूहतेजश्चक्रः सुदर्शनः ॥ १९ ॥

इति श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री सुदर्शन स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed