Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दत्तात्रेयं हरिं कृष्णं उन्मादं प्रणतोऽस्म्यहम् ।
आनन्ददायकं देवं मुनिबालं दिगम्बरम् ॥ १ ॥
पिशाचरूपिणं विष्णुं वन्देऽहं ज्ञानसागरम् ।
योगिनं भोगिनं नग्नं अनसूयात्मजं कविम् ॥ २ ॥
भोगमोक्षप्रदं वन्दे सर्वदेवस्वरूपिणम् ।
उरुक्रमं विशालाक्षं परमानन्दविग्रहम् ॥ ३ ॥
वरदं देवदेवेशं कार्तवीर्यवरप्रदम् ।
नानारूपधरं हृद्यं भक्तचिन्तामणिं गुरुम् ॥ ४ ॥
विश्ववन्द्यपदाम्भोजं योगिहृत्पद्मवासिनम् ।
प्रणतार्तिहरं गूढं कुत्सिताचारचेष्टितम् ॥ ५ ॥
मिताचारं मिताहारं भक्ष्याभक्ष्यविवर्जितम् ।
प्रमाणं प्राणनिलयं सर्वाधारं नतोऽस्म्यहम् ॥ ६ ॥
सिद्धसाधकसंसेव्यं कपिलं कृष्णपिङ्गलम् ।
विप्रवर्यं वेदविदं वेदवेद्यं वियत्समम् ॥ ७ ॥
पराशक्ति पदाश्लिष्टं राजराज्यप्रदं शिवम् ।
शुभदं सुन्दरग्रीवं सुशीलं शान्तविग्रहम् ॥ ८ ॥
योगिनं रामयास्पृष्टं रामारामं रमाप्रियम् ।
प्रणतोऽस्मि महादेवं शरणं भक्तवत्सलम् ॥ ९ ॥
वीरं वरेण्यं वृषभं वृषाचारं वृषप्रियम् ।
अलिप्तमनघं मेध्यं अनादिमगुणं परम् ॥ १० ॥
अनेकमेकमीशानं अनन्तमणिकेतनम् ।
अध्यक्षमसुरारातिं शमं शान्तं सनातनम् ॥ ११ ॥
गुह्यं गभीरं गहनं गुणज्ञं गह्वरप्रियम् ।
श्रीदं श्रीशं श्रीनिवासं श्रीवत्साङ्कं परायणम् ॥ १२ ॥
जपन्तं जपतां वन्द्यं जयन्तं विजयप्रदम् ।
जीवनं जगतस्सेतुं जनानां जातवेदसम् ॥ १३ ॥
यज्ञमिज्यं यज्ञभुजं यज्ञेशं याजकां यजुः ।
यष्टारं फलदं वन्दे साष्टाङ्गं परया मुदा ॥ १४ ॥
इति विष्णुदत्त कृत श्री दत्तात्रेय स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

