Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ सीतापातिव्रत्यप्रशंसा ॥
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ १ ॥
इह मे भरतो दृष्टो मातरश्च सनागराः ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २ ॥
स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।
हयहस्तिकरीषैश्चोपमर्दः कृतो भृशम् ॥ ३ ॥
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ ४ ॥
सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।
तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ ५ ॥
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ ६ ॥
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ ७ ॥
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ॥ ८ ॥
रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ ९ ॥
यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ॥ १० ॥
दशवर्षसहस्राणि यया तप्तं महत्तपः ।
अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्तिताः ॥ ११ ॥
देवकार्यनिमित्तं च यया सन्त्वरमाणया ।
दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥ १२ ॥
तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् ।
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ॥ १३ ॥
अनसूयेति या लोके कर्मभिः ख्यातिमागता ।
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ॥ १४ ॥
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ॥ १५ ॥
श्रेयोऽर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ।
सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ॥ १६ ॥
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।
शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम् ॥ १७ ॥
सततं वेपमानाङ्गीं प्रवाते कदली यथा ।
तां तु सीता महाभागामनसूयां पतिव्रताम् ॥ १८ ॥
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ॥ १९ ॥
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ।
ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ॥ २० ॥
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ।
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ॥ २१ ॥
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ।
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ॥ २२ ॥
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ।
दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ॥ २३ ॥
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ।
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ॥ २४ ॥
सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ।
न त्वेनमवगच्छन्ति गुणदोषमसत् स्त्रियः ॥ २५ ॥
कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः ।
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ॥ २६ ॥
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ।
त्वद्विधास्तु गुणैर्युक्ताः दृष्टलोकपरावराः ।
स्त्रियः स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २७ ॥
तदेवमेनं त्वमनुव्रता सती
पतिव्रतानां समयानुवर्तिनी ।
भवस्व भर्तुः सहधर्मचारिणी
यशश्च धर्मं च ततः समाप्स्यसि ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥
अयोध्याकाण्ड अष्टादशोत्तरशततमः सर्गः (११८) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

