Yuddha Kanda Sarga 57 – युद्धकाण्ड सप्तपञ्चाशः सर्गः (५७)



॥ प्रहस्तयुद्धम् ॥

अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।
किञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षतः ॥ १ ॥

स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।
ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ॥ २ ॥

पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ।
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ॥ ३ ॥

ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ।
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ॥ ४ ॥

उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ।
पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ॥ ५ ॥

नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ।
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ॥ ६ ॥

इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ।
स त्वं बलमतः शीघ्रमादाय परिगृह्य च ॥ ७ ॥

विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ।
निर्याणादेव ते नूनं चपला हरिवाहिनी ॥ ८ ॥

नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ।
चपला ह्यविनीताश्च चलचित्ताश्च वानराः ॥ ९ ॥

न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ।
विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह ॥ १० ॥

अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ।
आपत्संशयिता श्रेयो न तु निःसंशयीकृता ॥ ११ ॥

प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ।
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ॥ १२ ॥

राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ।
राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ॥ १३ ॥

विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ।
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ॥ १४ ॥

अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ।
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ॥ १५ ॥

सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ।
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ॥ १६ ॥

त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ।
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ॥ १७ ॥

उवाचेदं बलाध्यक्षान्प्रहस्तः पुरतः स्थितान् ।
समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ १८ ॥

मद्बाणाशनिवेगेन हतानां च रणाजिरे ।
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ॥ १९ ॥

इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ।
बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ॥ २० ॥

सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥ २१ ॥

हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥ २२ ॥

स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।
सङ्ग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा ॥ २३ ॥

सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ॥ २४ ॥

अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ २५ ॥

हयैर्महाजवैर्युक्तं सम्यक्सूतसुसम्यतम् ।
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥ २६ ॥

उरगध्वजदुर्धर्षं सुवरूथं स्ववस्करम् ।
सुवर्णजालसम्युक्तं प्रहसन्तमिव श्रिया ॥ २७ ॥

ततस्तं रथमास्थाय रावणार्पितशासनः ।
लङ्काया निर्ययौ तूर्णं बलेन महताऽऽवृतः ॥ २८ ॥

ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः ।
वादित्राणां च निनदः पूरयन्निव सागरम् ॥ २९ ॥

शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ।
निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः ॥ ३० ॥

भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः ।
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ॥ ३१ ॥

प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ।
व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ ॥ ३२ ॥

गजयूथनिकाशेन बलेन महता वृतः ।
सागरप्रतिमौघेन वृतस्तेन बलेन सः ॥ ३३ ॥

प्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ।
तस्य निर्याणघोषेण राक्षसानां च नर्दताम् ॥ ३४ ॥

लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ।
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ॥ ३५ ॥

मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ।
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ ३६ ॥

अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ।
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३७ ॥

मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ।
ववृषू रुधिरं चास्य सिषिचुश्च पुरःसरान् ॥ ३८ ॥

केतुमूर्धनि गृध्रोऽस्य निलीनो दक्षिणामुखः ।
तुदन्नुभयतः पार्श्वं समग्रामहरत्प्रभाम् ॥ ३९ ॥

सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ।
प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ॥ ४० ॥

निर्याणश्रीश्च यास्यासीद्भास्वरा वसुदुर्लभा ।
सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ ४१ ॥

प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् ।
युधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ ४२ ॥

अथ घोषः सुतुमुलो हरीणां समजायत ।
वृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ॥ ४३ ॥

नदतां राक्षसानां च वानराणां च गर्जताम् ।
उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ ४४ ॥

वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।
परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ ४५ ॥

ततः प्रहस्तः कपिराजवाहिनीं
अभिप्रतस्थे विजयाय दुर्मतिः ।
विवृद्धवेगां च विवेश तां चमूं
यथा मुमूर्षुः शलभो विभावसुम् ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

युद्धकाण्ड अष्टपञ्चाशः सर्गः (५८) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed