Yuddha Kanda Sarga 58 – युद्धकाण्ड अष्टपञ्चाशः सर्गः (५८)


॥ प्रहस्तवधः ॥

ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।
उवाच सस्मितं रामो विभीषणमरिन्दमः ॥ १ ॥

क एष सुमहाकायो बलेन महता वृतः ।
[* आगच्छति महावेगः किंरूपबलपौरुषः । *]
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ॥ २ ॥

राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ।
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ॥ ३ ॥

लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः ।
वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ॥ ४ ॥

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ ५ ॥

ददर्श महती सेना वानराणां बलीयसाम् ।
अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ॥ ६ ॥

खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।
गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ॥ ७ ॥

धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।
प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ ८ ॥

जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः ।
शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ॥ ९ ॥

तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् ।
बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ १० ॥

बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ११ ॥

शूलैः प्रमथिताः केचित्केचिच्च परमायुधैः ।
परिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः ॥ १२ ॥

निरुच्छ्वासाः कृताः केचित्पतिता धरणीतले ।
विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ॥ १३ ॥

केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ।
वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः ॥ १४ ॥

वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः ।
पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ॥ १५ ॥

वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।
वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ॥ १६ ॥

आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।
बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १७ ॥

वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।
विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १८ ॥

नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ १९ ॥

तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ २० ॥

दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।
राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥ २१ ॥

जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् ।
पातयामास तेजस्वी महानादस्य वक्षसि ॥ २२ ॥

अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।
वृक्षेणाभिहतो मूर्ध्नि प्राणान्सन्त्याजयद्रणे ॥ २३ ॥

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २४ ॥

आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा ।
क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः ॥ २५ ॥

महता हि शरौघेण प्रहस्तो युद्धकोविदः ।
अर्दयामास सङ्क्रुद्धो वानरान्परमाहवे ॥ २६ ॥

वानराणां शरीरैश्च राक्षसानां च मेदिनी ।
बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २७ ॥

सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते ।
सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ २८ ॥

हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।
शोणितौघमहातोयां यमसागरगामिनीम् ॥ २९ ॥

यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।
भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ॥ ३० ॥

गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ।
मेदःफेनसमाकीर्णामार्तस्तनितनिःस्वनाम् ॥ ३१ ॥

तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।
नदीमिव घनापाये हंससारससेविताम् ॥ ३२ ॥

राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥ ३३ ॥

ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् ।
ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ॥ ३४ ॥

उद्धूत इव वायुः खे महदभ्रबलं बलात् ।
समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ॥ ३५ ॥

रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ।
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ॥ ३६ ॥

नीलाय व्यसृजद्बाणान्प्रहस्तो वाहिनीपतिः ।
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ॥ ३७ ॥

महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ।
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ॥ ३८ ॥

स तं परमदुर्धर्षमापतन्तं महाकपिः ।
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३९ ॥

स तेनाभिहतः क्रुद्धो नदन्राक्षसपुङ्गवः ।
ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ॥ ४० ॥

तस्य बाणगणान्घोरान्राक्षसस्य महाबलः ।
अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः ॥ ४१ ॥

यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ।
एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ॥ ४२ ॥

निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ।
रोषितः शरवर्षेण सालेन महता महान् ॥ ४३ ॥

प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ।
ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ॥ ४४ ॥

बभञ्ज तरसा नीलो ननाद च पुनः पुनः ।
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ॥ ४५ ॥

प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ।
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ॥ ४६ ॥

स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ।
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ॥ ४७ ॥

सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ।
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ॥ ४८ ॥

काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ।
आजघान तदा नीलं ललाटे मुसलेन सः ॥ ४९ ॥

प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ।
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ॥ ५० ॥

प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ।
तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् ॥ ५१ ॥

अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।
तमुग्रवेगं संरब्धमापतन्तं महाकपिः ॥ ५२ ॥

ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ।
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ॥ ५३ ॥

प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ।
सा तेन कपिमुख्येन विमुक्ता महती शिला ॥ ५४ ॥

बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ।
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ॥ ५५ ॥

पपात सहसा भूमौ छिन्नमूल इव द्रुमः ।
प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ॥ ५६ ॥

शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ।
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ॥ ५७ ॥

राक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ।
न शेकुः समरे स्थातुं निहते वाहिनीपतौ ॥ ५८ ॥

सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ।
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ॥ ५९ ॥

रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।
प्राप्ताः शोकार्णवं तीव्रं निःसञ्ज्ञा इव तेऽभवन् ॥ ६० ॥

ततस्तु नीलो विजयी महाबलः
प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामेण सलक्ष्मणेन च
प्रहृष्टरूपस्तु बभूव यूथपः ॥ ६१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥

युद्धकाण्ड एकोनषष्टितमः सर्गः (५९) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed