Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री वसिष्ठ उवाच ।
अथ वर्षसहस्रेण तां पितामह आययौ ।
दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः ॥ १ ॥
मनसैव प्रणम्यैनं सा तथैव स्थिता सती ।
को वरः क्षुच्छमायाऽलमिति चिन्तान्विताऽभवत् ॥ २ ॥
आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम् ।
अनायसी चायसी च स्यामहं जीवसूचिका ॥ ३ ॥
अस्योक्त्या द्विविधा सूचिर्भूत्वा लक्ष्या विशाम्यहम् ।
प्राणिनां सह सर्वेषां हृदयं सुरभिर्यथा ॥ ४ ॥
यथाभिमतमेतेन ग्रसेयं सकलं जगत् ।
क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् ॥ ५ ॥
इति सञ्चिन्तयन्तीं तामुवाच कमलालयः ।
अन्यादृश्यास्तथा दृष्ट्वा स्तनिताभ्ररवोपमम् ॥ ६ ॥
ब्रह्मोवाच ।
पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके ।
उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम् ॥ ७ ॥
कर्कट्युवाच ।
भगवन् भूतभव्येश स्यामहं जीवसूचिका ।
अनायसी चायसी च विधेऽर्पयसि चेद्वरम् ॥ ८ ॥
श्रीवसिष्ठ उवाच ।
एवमस्त्विति तामुक्त्वा पुनराह पितामहः ।
सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका ॥ ९ ॥
सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि ।
दुर्भोजना दुरारंभा मूर्खा दुःस्थितयश्च ये ॥ १० ॥
दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि ।
प्रविश्याऽऽहृदयं प्राणैः पद्मप्लीहादि बाधनात् ॥ ११ ॥
वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका ।
सगुणं विगुणं चैव जनमासादयिष्यसि ॥ १२ ॥
गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते ।
ब्रह्मोवाच ।
हिमद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥ १३ ॥
विषूचिकाऽभिधाना सा नाम्नाप्यन्यायबाधिका ।
तस्या मन्त्रः ।
ओं ह्रीं ह्रां रीं रां विष्णुशक्तये नमः ।
ओं नमो भगवति विष्णुशक्तिमेनां ओं हर हर नय नय पच पच मथ मथ
उत्सादय उत्सादय दूरे कुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डल गतोऽसि स्वाहा ।
इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेदातुराकारं तेन हस्तेन सम्युतः ॥ १४ ॥
हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् ।
कर्कटी कर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम् ॥ १५ ॥
आतुरं चिन्तयेच्चन्द्रे रसायनहृदिस्थितम् ।
अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः ॥ १६ ॥
साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः ।
क्रमेणानेन सकलां प्रोच्छिनत्ति विषूचिकाम् ॥ १७ ॥
इति गगनगतस्त्रिलोकनाथः
गगनगसिद्धगृहीत सिद्धमन्त्रः ।
गत उपगतशक्रवन्द्यमानो
निजपुरमक्षयमायमुज्ज्वलश्रीः ॥ १८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विषूचिकामन्त्र कथनं नाम एकोनसप्ततितमस्सर्गः ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

