Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री गुरुभ्यो नमः । हरिः ओम् ।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ।
आचम्य –
ओं केशवाय स्वाहा । ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।
भूतोच्चाटनम् –
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
आसन संस्कारम् –
ओं पृथ्वीति मन्त्रस्य । मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलं छन्दः । आसने विनियोगः । अनन्तासनाय नमः ।
ओं पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
प्राणायामम् –
प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री छन्दः । प्राणायामे विनियोगः ॥
ओं भूः । ओं भुवः । ओं स्वः । ओं महः । ओं जनः । ओं तपः ।
ओं स॒त्यम् । ओं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि धीयो॒ यो न॑: प्रचो॒दया᳚त् । ओं आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भुर्भुव॒स्स्व॒रोम् ॥
सङ्कल्पं (देशकाल सङ्कीर्तनं) –
श्री शुभे शोभने मुहूर्ते विष्णोराज्ञया अत्र पृथिव्यां जम्बूद्वीपे भरतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य ____ प्रदेशे, ____ नद्योः मध्यदेशे लक्ष्मीनिवास गृहे, समस्त देवता ब्राह्मण हरिहरसन्निधौ, आद्य ब्रह्मणः द्वितीये परार्थे श्री श्वेतवराहकल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन श्री ___ संवत्सरे ___ अयने ___ ऋतौ ___ मासे ___ पक्षे ___ तिथौ ___ वासरे शुभनक्षत्रे शुभयोगे शुभकरण एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण [श्रीपरमेश्वर] प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्यामुपाशिष्ये ।
मार्जनम् –
आपोहिष्ठेति तृचस्य अम्बरीषः सिन्धुद्वीप ऋषिः । आपो देवता । गायत्री छन्दः । मार्जने विनियोगः ॥
ओं आपो॒ हिष्ठा म॑यो॒भुव॑: ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो॒ रस॑: ।
तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
मन्त्राचमनम् –
(प्रातः काले)
सूर्यश्चेत्यस्य मन्त्रस्य । नारायण ऋषिः । सूर्यमामन्यु मन्युपतयो रात्रिर्देवता । प्रकृतिश्छन्दः । मन्त्राचमने विनियोगः ॥
ओं सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमहं माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
(मध्याह्न काले)
आपः पुनन्त्वित्यस्य मन्त्रस्य । पूत ऋषिः । आपो देवता । अष्ठी छन्दः । अपां प्राशने विनियोगः ।
ओं आप॑: पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु॒ माम् ॥
यदुच्छि॑ष्ट॒मभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रहं॒ स्वाहा᳚ ॥
(सायं काले)
अग्निश्चेत्यस्य मन्त्रस्य । नारायण ऋषिः । अग्निमामन्यु मन्युपतयो अहर्देवता । प्रकृतिश्छन्दः । मन्त्राचमने विनियोगः ॥
ओं अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इ॒दम॒हं माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
आचम्य ॥
पुनर्मार्जनम् –
आपोहिष्ठेति नवर्चस्य सूक्तस्य । अम्बरीष सिन्धुद्वीप ऋषिः । आपो देवता । गायत्री छन्दः । पञ्चमी वर्धमाना । सप्तमी प्रतिष्ठा । अन्त्ये द्वे अनुष्टुभौ । पुनर्मार्जने विनियोगः ॥
ओं आपो॒ हिष्ठा म॑यो॒भुव॑: ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो॒ रस॑: ।
तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
ओं शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥
ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् ।
अ॒पो या॑चामि भेष॒जम् ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् ॥
आप॑: पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒ ३॒ मम॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
इ॒दमा॑प॒: प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
स॒सृषी॒स्तद॑पसो॒ दिवा॒नक्त॑ञ्च स॒सृषी᳚: ।
वरे॑ण्य क्र॒तूरह॑मा दे॒वी॒ रव॑से हुवे ॥
पापपुरुष विसर्जनम् –
ऋतं चेत्यस्य मन्त्रस्य । अघमर्षण ऋषिः । भाववृत्तो देवता । अनुष्टुप् छन्दः । मम पापपुरुष जल विसर्जने विनियोगः ॥
ओं ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः ।
स॒मु॒द्राद॑र्ण॒वादधि॑ संवथ्स॒रो अ॑जायत ॥
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ।
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥
आचम्य ॥
प्राणायामम् ॥
अर्घ्यप्रदानम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्यार्घ्य प्रदानं करिष्ये ॥
(प्रातः काले)
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । प्रातः सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओं भूर्भुव॒: स्व॑: । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया॑त् ॥ (ऋ।३।६२।१०)
[* प्रातः सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
यदद्यकच्चेत्यस्य मन्त्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छन्दः । प्रातः सन्ध्याङ्ग प्रायश्चित्तार्घ्यप्रदाने विनियोगः ।
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भिसू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।
*]
(मध्याह्न काले)
हंसश्शुचिषदित्यस्य मन्त्रस्य । गौतमपुत्रो वामदेव ऋषिः । सूर्यो देवता । जगती छन्दः । माध्याह्निक सन्ध्यार्घ्य प्रदाने विनियोगः ॥
ओं हं॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒ सद्धो॑ तावेदि॒षदति॑थिर्दुरोण॒ सत् । नृ॒षद्व॑र॒ सदृ॑त॒ सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । इति प्रथमार्घ्यम् ॥
आकृष्णेनेत्यस्य मन्त्रस्य । हिरण्य स्तूप ऋषिः । सविता देवता । त्रिष्टुप्छन्दः । माध्याह्निक सन्ध्यार्घ्य प्रदाने विनियोगः ॥
ओं आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्य॑ञ्च ।
हि॒र॒ण्य ये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑नानि॒ पश्यन्॑ । इति द्वितीयार्घ्यम् ॥
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । माध्याह्निक सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओं भूर्भुव॒: स्व॑: । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया॑त् । इति तृतीयार्घ्यम् ॥
[* माध्याह्निक सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
प्रातर्देवीत्यस्य मन्त्रस्य । अभितप ऋषिः । सूर्यो देवता । त्रिष्टुप् छन्दः । माध्याह्निक सन्ध्याङ्ग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ओं प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रा वरुणा स॒र्वता॒ते॑ले तो॒काय॒ तन॑याय॒ शं योः ।
*]
(सायं काले)
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । सायं सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओं भूर्भुव॒: स्व॑: । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया॑त् ॥
[* सायं सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
उद्घेदभीत्यस्य मन्त्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छन्दः । सायं सन्ध्याङ्ग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ओं उद्घेद॒भिश्रु॒ता म॑घं वृष॒भं नर्या᳚पसम् । अस्ता᳚र मेषि सूर्य ।
*]
आत्मप्रदक्षिण –
ब्रह्मैव सत्यं ब्रह्मैवाहम् । योसावादित्यो हिरण्मयः पुरुषः स एवाहमस्मि ।
अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥
आचम्य ॥
प्राणायामम् ॥
[* तर्पणम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग तर्पणं करिष्ये ।
(प्रातः काले)
सन्ध्यां तर्पयामि । गायत्रीं तर्पयामि ।
ब्राह्मीं तर्पयामि । निमृजीं तर्पयामि ।
(मध्याह्न काले)
सन्ध्यां तर्पयामि । सावित्रीं तर्पयामि ।
रौद्रीं तर्पयामि । निमृजीं तर्पयामि ।
(सायं काले)
सन्ध्यां तर्पयामि । सरस्वतीं तर्पयामि ।
वैष्णवीं तर्पयामि । निमृजीं तर्पयामि ।
*]
गायत्री आवाहनम् –
ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता । ब्रह्म॑ इत्या॒र्षम् । गायत्री छन्दः । परमात्मं॑ सरू॒पम् । सायुज्यं वि॑नियो॒गम् ।
आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् ।
गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे ।
यदह्ना᳚त्कुरु॑ते पा॒पं॒ तदह्ना᳚त्प्रति॒ मुच्य॑ते ।
यद्रात्रिया᳚त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚त्प्रति॒ मुच्य॑ते ।
सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्या वि॑द्ये स॒रस्व॑ति ।
ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम् ।
गायत्रीमावा॑हया॒मि॒ ।
सावित्रीमावा॑हया॒मि॒ ।
सरस्वतीमावा॑हया॒मि॒ ।
छन्दर्षीनावा॑हया॒मि॒ ।
श्रियमावा॑हया॒मि॒ ।
[* बलमावा॑हया॒मि॒ । *]
गायत्र्या गायत्री छन्दो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्मा शिरो विष्णुर् हृदयं रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना स प्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षि॒: पञ्चशीर्षोपनयने वि॑नियो॒गः ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्रजपं करिष्ये ॥
करन्यासम् ।
ओं तत्स॑वितु॒: ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ यो न॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।
अङ्गन्यासम् ।
ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो न॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्बन्धः ॥
ध्यानम् –
मुक्ता विद्रुम हेमनील धवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रङ्कपालं गदां
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
ध्येयस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय वपुर्धृतशङ्खचक्रः ॥
[* मुद्राप्रदर्शनम् –
सुमुखं सम्पुटं चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुः पञ्चमुखं तथा ।
षण्मुखोऽधोमुखं चैव व्यापिकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखम् ।
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ।
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ।
चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।
इति मुद्रा न जानाति गायत्री निष्फलाभवेत् ।
*]
गायत्री मन्त्रम् –
ओं भूर्भुव॒: स्व॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
करन्यासम् ।
ओं तत्स॑वितु॒: ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ यो न॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।
अङ्गन्यासम् ।
ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो न॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्विमोकः ॥
[* उत्तरमुद्रा प्रदर्शनम् –
सुरभिः ज्ञान चक्रं च योनिः कूर्मोऽथ पङ्कजम् ।
लिङ्गं निर्याण मुद्रा चेत्यष्टमुद्राः प्रकीर्तिताः ।
*]
सूर्योपस्थानम् –
जातवेदसेत्यस्य मन्त्रस्य कश्यप ऋषिः । दुर्गाजातवेदाग्निर्देवता । त्रिष्टुप् छन्दः । सूर्योपस्थाने विनियोगः ।
ओं जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेद॑: ।
स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिन्धुं᳚ दुरि॒ताऽत्य॒ग्निः ॥
त्र्यम्बकमिति मन्त्रस्य । मैत्रा वरुणिर्वसिष्ठ ऋषिः । रुद्रो देवता । अनुष्टुप् छन्दः । उपस्थाने विनियोगः ।
ओं त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मृ॑क्षीय॒ माऽमृता॑त् ।
[* तच्छम्योरित्यस्य मन्त्रस्य । शम्युर ऋषिः । विश्वेदेवाः देवता । शक्वरी छन्दः । शान्त्यर्थे उपस्थाने विनियोगः ।
ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ ।
गा॒तुं य॒ज्ञ॑पतये । दैवी᳚: स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शं नो᳚ अस्तु द्वि॒पदे॒ । शं चतु॑ष्पदे ।
*]
नमो ब्रह्मणे इत्यस्य मन्त्रस्य प्रजापति ऋषिः विश्वेदेवाः देवता । जगतीः छन्दः प्रदक्षिणे विनियोगः ।
ओं नमो᳚ ब्र॒ह्मणे॒ नमो᳚ऽस्त्व॒ग्नये॒ नम॑: पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो᳚ वा॒चे नमो᳚ वा॒चस्प॑तये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि ॥
दिग्देवता नमस्कारः –
ओं नम॒: प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नमो॒ दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नम॒: प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नम॑ ऊ॒र्ध्वा॑यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नमोऽध॑रायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नमो॑ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ॥
ऋषि देवतादि नमस्कारः –
नमो गङ्गायमुनयोर्मध्ये ये॑ व॒सन्ति॒ ते मे प्रसन्नात्मानश्चिरं जीवितं व॑र्धय॒न्ति॒
नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च नमः ।
ओं सन्ध्या॑यै नमः । सावि॑त्र्यै नमः । गाय॑त्र्यै नमः । सर॑स्वत्यै नमः । सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ नमः । दे॒वेभ्यो॒ नमः । ऋषि॑भ्यो॒ नमः । मुनि॑भ्यो॒ नमः । गुरु॑भ्यो॒ नमः । मातृ॑भ्यो॒ नमः । पितृ॑भ्यो॒ नमः । कामोऽकारिषी᳚न्नमो॒ नमः । मन्युरकारिषी᳚न्नमो॒ नमः ।
यां॒ सदा॑ सर्व॑भूता॒नि॒ च॒रा॑णि स्था॒वरा॑णि च ।
सायं॑ प्रा॒तर्न॑मस्य॒न्ति सा॒मा॒ सन्ध्या॑ऽभिर॑क्षतु ॥
देवता स्मरणम् –
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
क्षीरेण स्नापिते देवी चन्दनेन विलेपिते ।
बिल्वपत्रार्चिते देवी दुर्गेऽहं शरणं गतः ॥
गायत्री प्रस्थान प्रार्थना –
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि ।
ब्रा॒ह्मणे॑भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छदे॑वि य॒था सु॑खम् ॥
स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता ।
आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्चसं
मह्यं दत्वा प्रयातुं ब्र॑ह्मलो॒कम् ॥
नारायण नमस्कृति –
नमोऽस्त्वनन्ताय सहस्र मूर्तये
सहस्र पादाक्षि शिरोरु बाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्र कोटी युगधारिणे नमः ॥
भूम्याकाशाभिवन्दनम् –
इ॒दं द्या॑वा पृथि॒वी स॒त्यम॑स्तु ।
पित॒र्मात॒र्यदि॒होप॑ब्रुवे वा॑म् ।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिः ।
विद्यामे॒षं वृ॒जि॑नं जी॒रदा॑नुम् ।
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥
वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् ।
सर्वभूत निवासोऽसि वासुदेव नमोऽस्तु ते ॥
अभिवादनम् –
चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु ॥
___ प्रवरान्वित ___ स गोत्रः आश्वलायनसूत्रः ऋक् शाखाध्यायी ____ शर्माऽहं भो अभिवादये ॥
आचम्य ॥
समर्पणम् –
यस्य स्मृत्याच नामोक्त्या तपः सन्ध्या क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं रमापते ।
यत्कृतं तु मयादेव परिपूर्णं तदस्तु ते ॥
अनेन प्रातः/माध्याह्निक/सायं सन्ध्यावन्दनेन भगवान् सर्वात्मकः श्री लक्ष्मीनारायणः प्रीयताम् । सुप्रीतो वरदो भवतु ।
आब्रह्मलोकादाशेषादालोकालोक पर्वतात् ।
ये सन्ति ब्राहणा देवास्तेभ्यो नित्यं नमो नमः ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥
सर्वं श्रीमन्नारायणार्पणमस्तु ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
6 thoughts on “Rigveda Sandhya Vandanam – ऋग्वेद सन्ध्यावन्दनम्”
Leave a Reply
You must be logged in to post a comment.


Please add Krishna Yajurveda Sandhyavandam also in Devanagari. (If possible add the pictorial representation of mudras of Sandhyavandanam) – Thanks for your efforts towards Sanatana Dharmam
Please post the audio also along side like you have for the Mukunda Mala stotram
Pl upload the audio for the Rigveda Sandhya Vandana along side the script for the Telugu version and Devanagari also
Is this stotranidhi created by dwaita sampradaya people ? Very good work.
Kindly refer a video of Rigveda sandyavandam which will be very much helpful for the beginners.
Audio vedio for Rigveda sandhya Vandana please it will be very helpful