Sundarakanda Sarga (Chapter) 5 – सुन्दरकाण्ड पञ्चम सर्गः(५)


॥ भवनविचयः ॥

ततः स मध्यं गतमंशुमन्तं
ज्योत्स्नावितानं महदुद्वमन्तम् ।
ददर्श धीमान्दिवि भानुमन्तं
गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १ ॥

लोकस्य पापानि विनाशयन्तं
महोदधिं चापि समेधयन्तम् ।
भूतानि सर्वाणि विराजयन्तं
ददर्श शीतांशुमथाभियान्तम् ॥ २ ॥

या भाति लक्ष्मीर्भुवि मन्दरस्था
तथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था
रराज सा चारुनिशाकरस्था ॥ ३ ॥

हंसो यथा राजतपञ्जरस्थः
सिंहो यथा मन्दरकन्दरस्थः ।
वीरो यथा गर्वितकुञ्जरस्थ-
-श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥ ४ ॥

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो
महाचलः श्वेत इवोच्चशृङ्गः ।
हस्तीव जाम्बूनदबद्धशृङ्गो
रराज चन्द्रः परिपूर्णशृङ्गः ॥ ५ ॥

विनष्टशीताम्बुतुषारपङ्को
महाग्रहग्राहविनष्टपङ्कः ।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को
रराज चन्द्रो भगवान् शशाङ्कः ॥ ६ ॥

शिलातलं प्राप्य यथा मृगेन्द्रो
महारणं प्राप्य यथा गजेन्द्रः ।
राज्यं समासाद्य यथा नरेन्द्र-
-स्तथा प्रकाशो विरराज चन्द्रः ॥ ७ ॥

प्रकाशचन्द्रोदयनष्टदोषः
प्रवृद्धरक्षः पिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः
स्वर्गप्रकाशो भगवान् प्रदोषः ॥ ८ ॥

तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः
स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।
नक्तञ्चराश्चापि तथा प्रवृत्ताः
विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ९ ॥

मत्तप्रमत्तानि समाकुलानि
रथाश्वभद्रासनसङ्कुलानि ।
वीरश्रिया चापि समाकुलानि
ददर्श धीमान् स कपिः कुलानि ॥ १० ॥

परस्परं चाधिकमाक्षिपन्ति
भुजांश्च पीनानधिनिक्षिपन्ति ।
मत्तप्रलापानधिकं क्षिपन्ति
मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ ॥

रक्षांसि वक्षांसि च विक्षिपन्ति
गात्राणि कान्तासु च विक्षिपन्ति ।
रूपाणि चित्राणि च विक्षिपन्ति
दृढानि चापानि च विक्षिपन्ति ॥ १२ ॥

ददर्श कान्ताश्च समालभन्त्य-
-स्तथाऽपरास्तत्र पुनः स्वपन्त्यः ।
सुरूपवक्त्राश्च तथा हसन्त्यः
क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥ १३ ॥

महागजैश्चापि तथा नदद्भिः
सुपूजितैश्चापि तथा सुसद्भिः ।
रराज वीरैश्च विनिःश्वसद्भि-
-र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥ १४ ॥

बुद्धिप्रधानान् रुचिराभिधानान्
संश्रद्दधानान् जगतः प्रधानान् ।
नानाविधानान् रुचिराभिधानान्
ददर्श तस्यां पुरि यातुधानान् ॥ १५ ॥

ननन्द दृष्ट्वा स च तान्सुरूपा-
-न्नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान् स तदानुरूपान्
ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १६ ॥

ततो वरार्हाः सुविशुद्धभावा-
-स्तेषां स्त्रियस्तत्र महानुभावाः ।
प्रियेषु पानेषु च सक्तभावा
ददर्श तारा इव सुप्रभावाः ॥ १७ ॥

श्रिया ज्वलन्तीस्त्रपयोपगूढा
निशीथकाले रमणोपगूढाः ।
ददर्श काश्चित्प्रमदोपगूढा
यथा विहङ्गाः कुसुमोपगूढाः ॥ १८ ॥

अन्याः पुनर्हर्म्यतलोपविष्टा-
-स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्मपरा निविष्टा
ददर्श धीमान्मदनाभिविष्टाः ॥ १९ ॥

अप्रावृताः काञ्चनराजिवर्णाः
काश्चित्परार्थ्यास्तपनीयवर्णाः ।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः
कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ २० ॥

ततः प्रियान्प्राप्य मनोभिरामान्
सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः ।
गृहेषु हृष्टाः परमाभिरामाः
हरिप्रवीरः स ददर्श रामाः ॥ २१ ॥

चन्द्रप्रकाशाश्च हि वक्त्रमाला
वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।
विभूषणानां च ददर्श मालाः
शतह्रदानामिव चारुमालाः ॥ २२ ॥

न त्वेव सीतां परमाभिजातां
पथि स्थिते राजकुले प्रजाताम् ।
लतां प्रफुल्लामिव साधुजातां
ददर्श तन्वीं मनसाऽभिजाताम् ॥ २३ ॥

सनातने वर्त्मनि सन्निविष्टां
रामेक्षणान्तां मदनाभिविष्टाम् ।
भर्तुर्मनः श्रीमदनुप्रविष्टां
स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ ॥

उष्णार्दितां सानुसृतास्रकण्ठीं
पुरा वरार्होत्तमनिष्ककण्ठीम् ।
सुजातपक्ष्मामभिरक्तकण्ठीं
वने प्रनृत्तामिव नीलकण्ठीम् ॥ २५ ॥

अव्यक्तरेखामिव चन्द्ररेखां
पांसुप्रदिग्धामिव हेमरेखाम् ।
क्षतप्ररूढामिव बाणरेखां
वायुप्रभिन्नामिव मेघरेखाम् ॥ २६ ॥

सीतामपश्यन्मनुजेश्वरस्य
रामस्य पत्नीं वदतां वरस्य ।
बभूव दुःखाभिहतश्चिरस्य
प्लवङ्गमो मन्द इवाचिरस्य ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५ ॥

सुन्दरकाण्ड षष्ठः सर्गः (६) >>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed