Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ कुम्भकर्णवधः ॥
ते निवृत्ता महाकायाः श्रुत्वाऽङ्गदवचस्तदा ।
नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ॥ १ ॥
समुदीरितवीर्याश्च समारोपितविक्रमाः ।
पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ २ ॥
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः ।
चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ३ ॥
अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च ।
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ॥ ४ ॥
स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान् ।
अर्दयन्सुमहाकायः समन्ताद्व्यक्षिपद्रिपून् ॥ ५ ॥
शतानि सप्त चाष्टौ च सहस्राणि च वानराः ।
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥ ६ ॥
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च ।
परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति ॥ ७ ॥
भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव ।
कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः ॥ ८ ॥
वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि ।
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः ॥ ९ ॥
दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ।
तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः ॥ १० ॥
तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा ।
ममर्दाश्वान्गजांश्चापि रथांश्चैव नगोत्तमः ॥ ११ ॥
तानि चान्यानि रक्षांसि पुनश्चान्यद्गिरेः शिरः ।
तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि ॥ १२ ॥
रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ।
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः ॥ १३ ॥
शिरांसि नदतां जह्रुः सहसा भीमनिःस्वनाः ।
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् ॥ १४ ॥
रथानश्वान्गजानुष्ट्रान्राक्षसानभ्यसूदयन् ।
हनुमान् शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् ॥ १५ ॥
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ।
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह ।
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ १६ ॥
ततो हरीणां तदनीकमुग्रं
दुद्राव शूलं निशितं प्रगृह्य ।
तस्थौ ततोऽस्यापततः पुरस्ता-
-न्महीधराग्रं हनुमान्प्रगृह्य ॥ १७ ॥
स कुम्भकर्णं कुपितो जघान
वेगेन शैलोत्तमभीमकायम् ।
स चुक्षुभे तेन तदाऽभिभूतो
मेदार्द्रगात्रो रुधिरावसिक्तः ॥ १८ ॥
स शूलमाविध्य तडित्प्रकाशं
गिरिं यथा प्रज्वलिताग्रशृङ्गम् ।
बाह्वन्तरे मारुतिमाजघान
गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ १९ ॥
स शूलनिर्भिन्नमहाभुजान्तरः
प्रविह्वलः शोणितमुद्वमन्मुखात् ।
ननाद भीमं हनुमान्महाहवे
युगान्तमेघस्तनितस्वनोपमम् ॥ २० ॥
ततो विनेदुः सहसा प्रहृष्टा
रक्षोगणास्तं व्यथितं समीक्ष्य ।
प्लवङ्गमास्तु व्यथिता भयार्ताः
प्रदुद्रुवुः सम्यति कुम्भकर्णात् ॥ २१ ॥
ततस्तु नीलो बलवान्पर्यवस्थापयन्बलम् ।
प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ २२ ॥
तमापतन्तं सम्प्रेक्ष्य मुष्टिनाऽभिजघान ह ।
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥ २३ ॥
सविस्फुलिङ्गं सज्वालं निपपात महीतले ।
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ॥ २४ ॥
पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ।
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ॥ २५ ॥
कुम्भकर्णं महाकायं सर्वतोऽभिप्रदुद्रुवुः ।
स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे ॥ २६ ॥
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ।
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ॥ २७ ॥
निपपातर्षभो भीमः प्रमुखाद्वान्तशोणितः ।
मुष्टिना शरभं हत्वा जानुना नीलमाहवे ॥ २८ ॥
आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ।
पादेनाभ्यहनत्क्रुद्धस्तरसा गन्धमादनम् ॥ २९ ॥
दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ।
निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥ ३० ॥
तेषु वानरमुख्येषु पतितेषु महात्मसु ।
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ ३१ ॥
तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः ।
समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ ३२ ॥
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ।
कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥ ३३ ॥
स वानरसहस्रैस्तैराचितः पर्वतोपमः ।
रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ ३४ ॥
बाहुभ्यां वानरान्सर्वान्प्रगृह्य सुमहाबलः ।
भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ॥ ३५ ॥
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे ।
नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ ३६ ॥
भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसन्निभः ।
बभञ्ज वानरान्सर्वान्सङ्क्रुद्धो राक्षसोत्तमः ॥ ३७ ॥
मांसशोणितसङ्क्लेदां भूमिं कुर्वन्स राक्षसः ।
चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ॥ ३८ ॥
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ।
शूलहस्तो बभौ सङ्ख्ये कुम्भकर्णो महाबलः ॥ ३९ ॥
यथा शुष्कान्यरण्यानि ग्रीष्मे दहति पावकः ।
तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥ ४० ॥
ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।
वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥ ४१ ॥
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ।
राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ ४२ ॥
प्रभग्नान्वानरान्दृष्ट्वा वज्रहस्तसुतात्मजः ।
अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ ४३ ॥
शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः ।
त्रासयन्राक्षसान्सर्वान्कुम्भकर्णपदानुगान् ॥ ४४ ॥
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि ॥ ४५ ॥
स तेनाभिहतोऽत्यर्थं गिरिशृङ्गेण मूर्धनि ।
कुम्भकर्णः प्रजज्वाल कोपेन महता तदा ।
सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः ॥ ४६ ॥
कुम्भकर्णो महानादस्त्रासयन्सर्ववानरान् ।
शूलं ससर्ज वै रोषादङ्गदे स महाबलः ॥ ४७ ॥
तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः ।
लाघवान्मोचयामास बलवान्वानरर्षभः ॥ ४८ ॥
उत्पत्य चैनं सहसा तलेनोरस्यताडयत् ।
स तेनाभिहतः कोपात्प्रमुमोहाचलोपमः ॥ ४९ ॥
स लब्धसञ्ज्ञो बलवान्मुष्टिमावर्त्य राक्षसः ।
अपहासेन चिक्षेप विसञ्ज्ञः स पपात ह ॥ ५० ॥
तस्मिन् प्लवगशार्दूले विसञ्ज्ञे पतिते भुवि ।
तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ ५१ ॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् ।
उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ ५२ ॥
पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः ।
अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ ५३ ॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् ।
तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ॥ ५४ ॥
कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान् ।
कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ५५ ॥
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् ।
भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ ५६ ॥
त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ।
सहस्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥ ५७ ॥
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ।
श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥ ५८ ॥
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः ।
श्रुतपौरुषसम्पन्नः कस्माद्गर्जसि वानर ॥ ५९ ॥
स कुम्भकर्णस्य वचो निशम्य
व्याविध्य शैलं सहसा मुमोच ।
तेनाजघानोरसि कुम्भकर्णं
शैलेन वज्राशनिसन्निभेन ॥ ६० ॥
तच्छैलशृङ्गं सहसा विशीर्णं
भुजान्तरे तस्य तदा विशाले ।
ततो विषेदुः सहसा प्लवङ्गा
रक्षोगणाश्चापि मुदा विनेदुः ॥ ६१ ॥
स शैलशृङ्गाभिहतश्चुकोप
ननाद कोपाच्च विवृत्य वक्त्रम् ।
व्याविध्य शूलं च तडित्प्रकाशं
चिक्षेप हर्यृक्षपतेर्वधाय ॥ ६२ ॥
तत्कुम्भकर्णस्य भुजप्रविद्धं
शूलं शितं काञ्चनधामजुष्टम् ।
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां
बभञ्ज वेगेन सुतोऽनिलस्य ॥ ६३ ॥
कृतं भारसहस्रस्य शूलं कालायसं महत् ।
बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥ ६४ ॥
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी ।
हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥ ६५ ॥
सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः ।
मारुतिं पूजयाञ्चक्रुर्दृष्ट्वा शूलं तथागतम् ॥ ६६ ॥
स तत्तदा भग्नमवेक्ष्य शूलं
चुकोप रक्षोधिपतिर्महात्मा ।
उत्पाट्य लङ्कामलयात्स शृङ्गं
जघान सुग्रीवमुपेत्य तेन ॥ ६७ ॥
स शैलशृङ्गाभिहतो विसञ्ज्ञः
पपात भूमौ युधि वानरेन्द्रः ।
तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं
नेदुः प्रहृष्टास्त्वथ यातुधानाः ॥ ६८ ॥
तमभ्युपेत्याद्भुतघोरवीर्यं
स कुम्भकर्णो युधि वानरेन्द्रम् ।
जहार सुग्रीवमभिप्रगृह्य
यथाऽनिलो मेघमतिप्रचण्डः ॥ ६९ ॥
स तं महामेघनिकाशरूपम्
उत्पाट्य गच्छन्युधि कुम्भकर्णः ।
रराज मेरुप्रतिमानरूपो
मेरुर्यथाभ्युच्छ्रितघोरशृङ्गः ॥ ७० ॥
ततस्तमुत्पाट्य जगाम वीरः
संस्तूयमानो युधि राक्षसेन्द्रैः ।
शृण्वन्निनादं त्रिदशालयानां
प्लवङ्गराजग्रहविस्मितानाम् ॥ ७१ ॥
ततस्तमादाय तदा स मेने
हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।
अस्मिन्हृते सर्वमिदं हृतं स्यात्-
सराघवं सैन्यमितीन्द्रशत्रुः ॥ ७२ ॥
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ।
कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ ७३ ॥
हनुमांश्चिन्तयामास मतिमान्मारुतात्मजः ।
एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ ७४ ॥
यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा ।
भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम् ॥ ७५ ॥
मया हते सम्यति कुम्भकर्णे
महाबले मुष्टिविकीर्णदेहे ।
विमोचिते वानरपार्थिवे च
भवन्तु हृष्टाः प्लवगाः समस्ताः ॥ ७६ ॥
अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः ।
गृहीतोऽयं यदि भवेत्रिदशैः सासुरोरगैः ॥ ७७ ॥
मन्ये न तावदात्मानं बुध्यते वानराधिपः ।
शैलप्रहाराभिहतः कुम्भकर्णेन सम्युगे ॥ ७८ ॥
अयं मुहूर्तात्सुग्रीवो लब्धसञ्ज्ञो महाहवे ।
आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ ७९ ॥
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।
अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ ८० ॥
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु ।
भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ ८१ ॥
इत्येवं चिन्तयित्वा तु हनुमान्मारुतात्मजः ।
भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ ८२ ॥
स कुम्भकर्णोऽथ विवेश लङ्कां
स्फुरन्तमादाय महाकपिं तम् ।
विमानचर्यागृहगोपुरस्थैः
पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥ ८३ ॥
लाजगन्धोदवर्षैस्तु सिच्यमानः शनैः शनैः ।
राजमार्गस्य शीतत्वात्सञ्ज्ञामाप महाबलः ॥ ८४ ॥
ततः स सञ्ज्ञामुपलभ्य कृच्छ्रा-
-द्बलीयसस्तस्य भुजान्तरस्थः ।
अवेक्षमाणः पुरराजमार्गं
विचिन्तयामास मुहुर्महात्मा ॥ ८५ ॥
एवं गृहीतेन कथं नु नाम
शक्यं मया सम्प्रतिकर्तुमद्य ।
तथा करिष्यामि यथा हरीणां
भविष्यतीष्टं च हितं च कार्यम् ॥ ८६ ॥
ततः कराग्रैः सहसा समेत्य
राजा हरीणाममरेन्द्रशत्रुम् ।
खरैश्च कर्णौ दशनैश्च नासां
ददंश पार्श्वेषु च कुम्भकर्णम् ॥ ८७ ॥
स कुम्भकर्णो हृतकर्णनासो
विदारितस्तेन विमर्दितश्च ।
रोषाभिभूतः क्षतजार्द्रगात्रः
सुग्रीवमाविध्य पिपेष भूमौ ॥ ८८ ॥
स भूतले भीमबलाभिपिष्टः
सुरारिभिस्तैरभिहन्यमानः ।
जगाम खं वेगवदभ्युपेत्य
पुनश्च रामेण समाजगाम ॥ ८९ ॥
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः ।
रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ॥ ९० ॥
शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः ।
युद्धायाभिमुखो भूयो मनश्चक्रे महाबलः ॥ ९१ ॥
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः ।
नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः ॥ ९२ ॥
गते तु तस्मिन्सुरराजशत्रुः
क्रोधात्प्रदुद्राव रणाय भूयः ।
अनायुधोऽस्मीति विचिन्त्य रौद्रो
घोरं तदा मुद्गरमाससाद ॥ ९३ ॥
ततः स पुर्याः सहसा महौजा
निष्क्रम्य तद्वानरसैन्यमुग्रम् ।
[* तेनैव रूपेण बभञ्ज रुष्टः ।
प्रहारमुष्ट्या च पदेन सद्यः *]। ९४ ॥
बभक्ष रक्षो युधि कुम्भकर्णः
प्रजा युगान्ताग्निरिव प्रदीप्तः ।
बुभुक्षितः शोणितमांसगृध्नुः
प्रविश्य तद्वानरसैन्यमुग्रम् ॥ ९५ ॥
चखाद रक्षांसि हरीन्पिशाचान्-
ऋक्षांश्च मोहाद्युधि कुम्भकर्णः ।
यथैव मृत्युर्हरते युगान्ते
स भक्षयामास हरींश्च मुख्यान् ॥ ९६ ॥
एकं द्वे त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः ।
समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ॥ ९७ ॥
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः ।
वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥ ९८ ॥
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ।
कुम्भकर्णो भृशं क्रुद्धः कपीन्खादन्प्रधावति ॥ ९९ ॥
शतानि सप्त चाष्टौ च विंशत्त्रिंशत्तथैव च ।
सम्परिष्वज्य बाहुभ्यां खादन्विपरिधावति ॥ १०० ॥
[* अधिकश्लोकं –
मेदोवसाशोणितदिग्धगात्रः
कर्णावसक्तप्रथितान्त्रमालः ।
ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः
कालो युगान्ताग्निरिव प्रवृद्धः ॥ १०१ ॥
*]
तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः ।
चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ॥ १०२ ॥
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान् ।
निचखानाददे बाणान्विससर्ज च लक्ष्मणः ॥ १०३ ॥
[* अधिकपाठः –
पीड्यमानस्तदस्त्रं तु वीशेषं तत्स राक्षसः ।
ततश्चुकोप बलवान्सुमित्रानन्दवर्धनः ॥ १०४ ॥
अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम् ।
प्रच्छादयामास शैरः सन्ध्याभ्रैरिव मारुतः ॥ १०५ ॥
नीलाञ्जनचयप्रख्यैः शरैः काञ्चनभूषणैः ।
आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुभान् ॥ १०६ ॥
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् ।
सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनम् ॥ १०७ ॥
अन्तकस्यापि क्रुद्धस्य भयदातारमाहवे ।
युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ १०८ ॥
प्रगृहीतायुधस्येव मृत्योरिव महामृधे ।
तिष्ठन्नप्यग्रतः पूज्यः को मे युद्धप्रदायकः ॥ १०९ ॥
ऐरावत गजारूढो वृतः सर्वामरैः प्रभुः ।
नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ॥ ११० ॥
अद्य त्वयाऽहं सौमित्रे बालेनापि पराक्रमैः ।
तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् ॥ १११ ॥
सत्वधैर्यबलोत्साहैस्तोषितोऽहं रणे त्वया ।
राममेवैकमिच्छामि हन्तुं यस्मिन्हते हतम् ॥ ११२ ॥
रामे मया चेन्निहते येऽन्ये स्थास्यन्ति सम्युगे ।
तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥ ११३ ॥
इत्युक्तवाक्यं तद्रक्षः प्रोवाच स्तुतिसंहितम् ।
मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥ ११४ ॥
यस्त्वं शक्रादिभिर्देवैरसह्यं प्राह पौरुषम् ।
तत्सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥ ११५ ॥
एष दाशरथी रामस्तिष्ठत्यद्रिरिवापरः ।
मनोरथो रात्रिचर तत्समीपे भविष्यति ।
इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः ॥ ११६ ॥
*]
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः ।
राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ ११७ ॥
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।
कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥ ११८ ॥
तस्य रामेण विद्धस्य सहसाभिप्रधावतः ।
अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ ११९ ॥
रामास्त्रविद्धो घोरं वै नदन्राक्षसपुङ्गवः ।
अभ्यधावत सङ्क्रुद्धो हरीन्विद्रावयन्रणे ॥ १२० ॥
तस्योरसि निमग्नाश्च शरा बर्हिणवाससः ।
रेजुर्नीलाद्रिकटके नृत्यन्त इव बर्हिणः ॥ १२१ ॥
हस्ताच्चापि परिभ्रष्टा पपातोर्व्यां महागदा ।
आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले ॥ १२२ ॥
स निरायुधमात्मानं यदा मेने महाबलः ।
मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥ १२३ ॥
स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ।
रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ॥ १२४ ॥
स तीव्रेण च कोपेन रुधिरेण च मूर्छितः ।
वानरान्राक्षसानृक्षान्खादन्विपरिधावति ॥ १२५ ॥
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः ।
चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥ १२६ ॥
अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः ।
शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ॥ १२७ ॥
तन्मेरुशिखराकारं द्योतमानमिव श्रिया ।
द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥ १२८ ॥
तस्मिन्काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत् ।
कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ॥ १२९ ॥
नैवायं वानरान्राजन्नापि जानाति राक्षसान् ।
मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ॥ १३० ॥
साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः ।
यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ १३१ ॥
अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः ।
प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवङ्गमान् ॥ १३२ ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ॥ १३३ ॥
कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः ।
व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ १३४ ॥
तान्दृष्ट्वा निर्धुतान्रामो दुष्टोऽयमिति राक्षसः ।
समुत्पपात वेगेन धनुरुत्तममाददे ॥ १३५ ॥
क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा ।
राघवो राक्षसं रोषादभिदुद्राव वेगितः ।
यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान् ॥ १३६ ॥
स चापमादाय भुजङ्गकल्पं
दृढज्यमुग्रं तपनीयचित्रम् ।
हरीन्समाश्वास्य समुत्पपात
रामो निबद्धोत्तमतूणबाणः ॥ १३७ ॥
स वानरगणैस्तैस्तु वृतः परमदुर्जयः ।
लक्ष्मणानुचरो रामः सम्प्रतस्थे महावलः ॥ १३८ ॥
स ददर्श महात्मानं किरीटिनमरिन्दमम् ।
शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥ १३९ ॥
सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् ।
मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ॥ १४० ॥
विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम् ।
स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥ १४१ ॥
जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम् ।
मृद्गन्तं वानरानीकं कालान्तकयमोपमम् ॥ १४२ ॥
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् ।
विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ १४३ ॥
स तस्य चापनिर्घोषात्कुपितो राक्षसर्षभः ।
अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ १४४ ॥
ततस्तु वातोद्धतमेघकल्पं
भुजङ्गराजोत्तमभोगबाहुम् ।
तमापतन्तं धरणीधराभ-
-मुवाच रामो युधि कुम्भकर्णम् ॥ १४५ ॥
आगच्छ रक्षोधिप मा विषाद-
-मवस्थितोऽहं प्रगृहीतचापः ।
अवेहि मां शक्रसपत्न रामम्
मया मुहूर्ताद्भविता विचेताः ॥ १४६ ॥
रामोऽयमिति विज्ञाय जहास विकृतस्वनम् ।
अभ्यधावत सङ्क्रुद्धो हरीन्विद्रावयन्रणे ॥ १४७ ॥
पातयन्निव सर्वेषां हृदयानि वनौकसाम् ।
प्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ॥ १४८ ॥
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।
नाहं विराधो विज्ञेयो न कबन्धः खरो न च ॥ १४९ ॥
न वाली न च मारीचः कुम्भकर्णोऽहमागतः ।
पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ॥ १५० ॥
अनेन निर्जिता देवा दानवाश्च पुरा मया ।
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ॥ १५१ ॥
स्वल्पाऽपि हि न मे पीडा कर्णनासाविनाशनात् ।
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु ।
ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ १५२ ॥
स कुम्भकर्णस्य वचो निशम्य
रामः सुपुङ्खान्विससर्ज बाणान् ।
तैराहतो वज्रसमग्रवेगैः
न चुक्षुभे न व्यथते सुरारिः ॥ १५३ ॥
यैः सायकैः सालवरा निकृत्ता
वाली हतो वानरपुङ्गवश्च ।
ते कुम्भकर्णस्य तदा शरीरे
वज्रोपमा न व्यथयांप्रचक्रुः ॥ १५४ ॥
स वारिधारा इव सायकांस्तान्
पिबन् शरीरेण महेन्द्रशत्रुः ।
जघान रामस्य शरप्रवेगं
व्याविध्य तं मुद्गरमुग्रवेगम् ॥ १५५ ॥
ततस्तु रक्षः क्षतजानुलिप्तं
वित्रासनं देवमहाचमूनाम् ।
विव्याध तं मुद्गरमुग्रवेगं
विद्रावयामास चमूं हरीणाम् ॥ १५६ ॥
वायव्यमादाय ततो वरास्त्रं
रामः प्रचिक्षेप निशाचराय ।
समुद्गरं तेन जघान बाहुं
स कृत्तबाहुस्तुमुलं ननाद ॥ १५७ ॥
स तस्य बाहुर्गिरिशृङ्गकल्पः
समुद्गरो राघवबाणकृत्तः ।
पपात तस्मिन्हरिराजसैन्ये
जघान तां वानरवाहनीं च ॥ १५८ ॥
ते वानरा भग्नहतावशेषाः
पर्यन्तमाश्रित्य तदा विषण्णाः ।
प्रवेपिताङ्गं ददृशुः सुघोरं
नरेन्द्ररक्षोधिपसन्निपातम् ॥ १५९ ॥
स कुम्भकर्णोस्त्रनिकृत्तबाहु-
-र्महान्निकृत्ताग्र इवाचलेन्द्रः ।
उत्पाटयामास करेण वृक्षं
ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ १६० ॥
स तस्य बाहुं सहसालवृक्षं
समुद्यतं पन्नगभोगकल्पम् ।
ऐन्द्रास्त्रयुक्तेन जघान रामो
बाणेन जाम्बूनदचित्रितेन ॥ १६१ ॥
स कुम्भकर्णस्य भुजो निकृत्तः
पपात भूमौ गिरिसन्निकाशः ।
विवेष्टमानोऽभिजघान वृक्षान्
शैलान् शिला वानरराक्षसांश्च ॥ १६२ ॥
तं छिन्नबाहुं समवेक्ष्य रामः
समापतन्तं सहसा नदन्तम् ।
द्वावर्धचन्द्रौ निशितौ प्रगृह्य
चिच्छेद पादौ युधि राक्षसस्य ॥ १६३ ॥
तौ तस्य पादौ प्रदिशो दिशश्च
गिरीन्गुहाश्चैव महार्णवं च ।
लङ्कां च सेनां कपिराक्षसानां
विनादयन्तौ विनिपेततुश्च ॥ १६४ ॥
निकृत्तबाहुर्विनिकृत्तपादो
विदार्य वक्त्रं वडवामुखाभम् ।
दुद्राव रामं सहसाऽभिगर्जन्
राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ १६५ ॥
अपूरयत्तस्य मुखं शिताग्रै
रामः शरैर्हेमपिनद्धपुङ्खैः ।
स पूर्णवक्त्रो न शशाक वक्तुं
चुकूज कृच्छ्रेण मुमोह चापि ॥ १६६ ॥
अथाददे सूर्यमरीचिकल्पं
स ब्रह्मदण्डान्तककालकल्पम् ।
अरिष्टमैन्द्रं निशितं सुपुङ्खं
रामः शरं मारुततुल्यवेगम् ॥ १६७ ॥
तं वज्रजाम्बूनदचारुपुङ्खं
प्रदीप्तसूर्यज्वलनप्रकाशम् ।
महेन्द्रवज्राशनितुल्यवेगं
रामः प्रचिक्षेप निशाचराय ॥ १६८ ॥
स सायको राघवबाहुचोदितो
दिशः स्वभासा दश सम्प्रकाशयन् ।
सधूमवैश्वानरदीप्तदर्शनो
जगाम शक्राशनिवीर्यविक्रमः ॥ १६९ ॥
स तन्महापर्वतकूटसन्निभं
विवृत्तदंष्ट्रं चलचारुकुण्डलम् ।
चकर्त रक्षोधिपतेः शिरस्तथा
यथैव वृत्रस्य पुरा पुरन्दरः ॥ १७० ॥
कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् ।
आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥ १७१ ॥
तद्रामबाणाभिहतं पपात
रक्षःशिरः पर्वतसन्निकाशम् ।
बभञ्ज चर्यागृहगोपुराणि
प्राकारमुच्चं तमपातयच्च ॥ १७२ ॥
न्यपतत्कुम्भकर्णोऽथ स्वकायेन निपातयन् ।
प्लवङ्गमानां कोट्यश्च परितः सम्प्रधावताम् ॥ १७३ ॥
तच्चातिकायं हिमवत्प्रकाशं
रक्षस्ततस्तोयनिधौ पपात ।
ग्राहान्वरान्मीनवरान्भुजङ्गान्
ममर्द भूमिं च तदा विवेश ॥ १७४ ॥
तस्मिन्हते ब्राह्मणदेवशत्रौ
महाबले सम्यति कुम्भकर्णे ।
चचाल भूर्भूमिधराश्च सर्वे
हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ १७५ ॥
ततस्तु देवर्षिमहर्षिपन्नगाः
सुराश्च भूतानि सुपर्णगुह्यकाः ।
सयक्षगन्धर्वगणा नभोगताः
प्रहर्षिता रामपराक्रमेण ॥ १७६ ॥
ततस्तु ते तस्य वधेन भूरिणा
मनस्विनो नैरृतराजबान्धवाः ।
विनेदुरुच्चैर्व्यथिता रघूत्तमं
हरिं समीक्ष्यैव यथा सुरार्दिताः ॥ १७७ ॥
स देवलोकस्य तमो निहत्य
सूर्यो यथा राहुमुखाद्विमुक्तः ।
तथा व्यभासीद्भुवि वानरौघे
निहत्य रामो युधि कुम्भकर्णम् ॥ १७८ ॥
प्रहर्षमीयुर्बहवस्तु वानराः
प्रबुद्धपद्मप्रतिमैरिवाननैः ।
अपूजयन्राघवमिष्टभागिनं
हते रिपौ भीमबले दुरासदे ॥ १७९ ॥
स कुम्भकर्णं सुरसङ्घमर्दनं
महत्सु युद्धेषु पराजितश्रमम् ।
ननन्द हत्वा भरताग्रजो रणे
महासुरं वृत्रमिवामराधिपः ॥ १८० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
युद्धकाण्ड अष्टषष्टितमः सर्गः (६८) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.