Yuddha Kanda Sarga 63 – युद्धकाण्ड त्रिषष्टितमः सर्गः (६३)


॥ कुम्भकर्णानुशोकः ॥

तस्य राक्षसराजस्य निशम्य परिदेवितम् ।
कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ॥ १ ॥

दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ।
हितेष्वनभिरक्तेन सोऽयमासादितस्त्वया ॥ २ ॥

शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३ ॥

प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ ४ ॥

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ५ ॥ [चापर]

देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६ ॥

त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७ ॥

यथागमं च यो राजा समयं विचिकीर्षति ।
बुध्यते सचिवान्बुद्ध्य सुहृदश्चानुपश्यति ॥ ८ ॥

धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते ।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ९ ॥

त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १० ॥

उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ ११ ॥

काले धर्मार्थकामान्यः सम्मन्त्र्य सचिवैः सह ।
निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ १२ ॥

हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।
राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ॥ १३ ॥

अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १४ ॥

अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५ ॥

अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ १६ ॥

विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७ ॥

तान्भर्ता मित्रसङ्काशानमित्रान्मन्त्रनिर्णये ।
व्यवहारेण जानीयात्सचिवानुपसंहितान् ॥ १८ ॥

चपलस्येह कृत्यानि सहसाऽनुप्रधावतः ।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ १९ ॥

यो हि शत्रुमभिज्ञाय नात्मानमभिरक्षति ।
अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते ॥ २० ॥

यदुक्तमिह ते पूर्वं प्रिययामेनुजेन च । [क्रियता]
तदेव नो हितं कार्यं यदिच्छसि च तत्कुरु ॥ २१ ॥

तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।
भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ॥ २२ ॥

मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।
किमेवं वाक्छ्रमं कृत्वा काले युक्तं विधीयताम् ॥ २३ ॥

विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।
नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ॥ २४ ॥

अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् ।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ २५ ॥

ममापनयजं दोषं विक्रमेण समीकुरु ।
यदि खल्वस्ति मे स्नेहो विक्रमं वावगच्छसि ॥ २६ ॥

यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ।
स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ॥ २७ ॥

स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ।
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ॥ २८ ॥

रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ॥ २९ ॥

कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।
अलं राक्षसराजेन्द्र सन्तापमुपपद्यते ॥ ३० ॥

रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ॥ ३१ ॥

तमहं नाशयिष्यामि यत्कृते परितप्यसे ।
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ॥ ३२ ॥

बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।
सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना ॥ ३३ ॥

शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।
अद्य पश्य महाबाहो मया समरमूर्धनि ॥ ३४ ॥

हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ।
अद्य रामस्य तद्दृष्ट्वा मयाऽऽनीतं रणाच्छिरः ॥ ३५ ॥

सुखी भव महाबाहो सीता भवतु दुःखिता ।
अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् ॥ ३६ ॥

लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ॥ ३७ ॥

शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ।
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ॥ ३८ ॥

विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।
कथं त्वं राक्षसैरेभिर्मया च परिसान्त्वतः ॥ ३९ ॥ [रक्षितः]

जिघांसुभिर्दाशरथिं व्यथसे त्वं सदाऽनघ ।
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ॥ ४० ॥

नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ॥ ४१ ॥

न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥ ४२ ॥

यदि शक्रो यदि यमो यदि पावकमारुतौ ।
तानहं योधयिष्यामि कुबेरवरुणावपि ॥ ४३ ॥

गिरिमात्रशरीरस्य शितशूलधरस्य मे ।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ॥ ४४ ॥

अथवा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् । [मृद्नतः]
न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ॥ ४५ ॥

नैव शक्त्या न गदया नासिना निशितैः शरैः ।
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥ ४६ ॥

यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यते ।
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ॥ ४७ ॥

चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ।
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥ ४८ ॥

मुञ्च रामाद्भयं राजन्हनिष्यामीह सम्युगे ।
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ॥ ४९ ॥

हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।
हरींश्चापि हनिष्यामि सम्युगे समवस्थितान् ॥ ५० ॥

असाधारणमिच्छामि तव दातुं महद्यशः ।
यदि चेन्द्राद्भयं राजन्यदि वाऽपि स्वयम्भुवः ॥ ५१ ॥

अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।
यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥ ५२ ॥

आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ॥ ५३ ॥

पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥ ५४ ॥

अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥ ५५ ॥

वधेन ते दाशरथेः सुखार्हं
सुखं समाहर्तुमहं व्रजामि ।
निकृत्य रामं सह लक्ष्मणेन [निहत्य]
खादामि सर्वान्हरियूथमुख्यान् ॥ ५६ ॥

रमस्व कामं पिब चाग्र्यवारुणीं
कुरुष्व कृत्यानि विनीयतां ज्वरः ।
मयाद्य रामे गमितेयमक्षयं
चिराय सीता वशगा भविष्यति ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥

युद्धकाण्ड चतुःषष्टितमः सर्गः (६४) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed