Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ कुम्भकर्णानुशोकः ॥
तस्य राक्षसराजस्य निशम्य परिदेवितम् ।
कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ॥ १ ॥
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ।
हितेष्वनभिरक्तेन सोऽयमासादितस्त्वया ॥ २ ॥
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३ ॥
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ ४ ॥
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ५ ॥ [चापर]
देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६ ॥
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७ ॥
यथागमं च यो राजा समयं विचिकीर्षति ।
बुध्यते सचिवान्बुद्ध्य सुहृदश्चानुपश्यति ॥ ८ ॥
धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते ।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ९ ॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १० ॥
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ ११ ॥
काले धर्मार्थकामान्यः सम्मन्त्र्य सचिवैः सह ।
निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ १२ ॥
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।
राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ॥ १३ ॥
अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १४ ॥
अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५ ॥
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ १६ ॥
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७ ॥
तान्भर्ता मित्रसङ्काशानमित्रान्मन्त्रनिर्णये ।
व्यवहारेण जानीयात्सचिवानुपसंहितान् ॥ १८ ॥
चपलस्येह कृत्यानि सहसाऽनुप्रधावतः ।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ १९ ॥
यो हि शत्रुमभिज्ञाय नात्मानमभिरक्षति ।
अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते ॥ २० ॥
यदुक्तमिह ते पूर्वं प्रिययामेनुजेन च । [क्रियता]
तदेव नो हितं कार्यं यदिच्छसि च तत्कुरु ॥ २१ ॥
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।
भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ॥ २२ ॥
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।
किमेवं वाक्छ्रमं कृत्वा काले युक्तं विधीयताम् ॥ २३ ॥
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।
नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ॥ २४ ॥
अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् ।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ २५ ॥
ममापनयजं दोषं विक्रमेण समीकुरु ।
यदि खल्वस्ति मे स्नेहो विक्रमं वावगच्छसि ॥ २६ ॥
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ।
स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ॥ २७ ॥
स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ।
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ॥ २८ ॥
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ॥ २९ ॥
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।
अलं राक्षसराजेन्द्र सन्तापमुपपद्यते ॥ ३० ॥
रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ॥ ३१ ॥
तमहं नाशयिष्यामि यत्कृते परितप्यसे ।
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ॥ ३२ ॥
बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।
सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना ॥ ३३ ॥
शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।
अद्य पश्य महाबाहो मया समरमूर्धनि ॥ ३४ ॥
हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ।
अद्य रामस्य तद्दृष्ट्वा मयाऽऽनीतं रणाच्छिरः ॥ ३५ ॥
सुखी भव महाबाहो सीता भवतु दुःखिता ।
अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् ॥ ३६ ॥
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ॥ ३७ ॥
शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ।
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ॥ ३८ ॥
विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।
कथं त्वं राक्षसैरेभिर्मया च परिसान्त्वतः ॥ ३९ ॥ [रक्षितः]
जिघांसुभिर्दाशरथिं व्यथसे त्वं सदाऽनघ ।
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ॥ ४० ॥
नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ॥ ४१ ॥
न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥ ४२ ॥
यदि शक्रो यदि यमो यदि पावकमारुतौ ।
तानहं योधयिष्यामि कुबेरवरुणावपि ॥ ४३ ॥
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ॥ ४४ ॥
अथवा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् । [मृद्नतः]
न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ॥ ४५ ॥
नैव शक्त्या न गदया नासिना निशितैः शरैः ।
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥ ४६ ॥
यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यते ।
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ॥ ४७ ॥
चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ।
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥ ४८ ॥
मुञ्च रामाद्भयं राजन्हनिष्यामीह सम्युगे ।
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ॥ ४९ ॥
हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।
हरींश्चापि हनिष्यामि सम्युगे समवस्थितान् ॥ ५० ॥
असाधारणमिच्छामि तव दातुं महद्यशः ।
यदि चेन्द्राद्भयं राजन्यदि वाऽपि स्वयम्भुवः ॥ ५१ ॥
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।
यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥ ५२ ॥
आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ॥ ५३ ॥
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥ ५४ ॥
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥ ५५ ॥
वधेन ते दाशरथेः सुखार्हं
सुखं समाहर्तुमहं व्रजामि ।
निकृत्य रामं सह लक्ष्मणेन [निहत्य]
खादामि सर्वान्हरियूथमुख्यान् ॥ ५६ ॥
रमस्व कामं पिब चाग्र्यवारुणीं
कुरुष्व कृत्यानि विनीयतां ज्वरः ।
मयाद्य रामे गमितेयमक्षयं
चिराय सीता वशगा भविष्यति ॥ ५७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
युद्धकाण्ड चतुःषष्टितमः सर्गः (६४) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

