Yuddha Kanda Sarga 4 – युद्धकाण्ड चतुर्थः सर्गः (४)


॥ रामाभिषेणनम् ॥

श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः ।
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ १ ॥

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः ।
क्षिप्रमेनां मथिष्यामि सत्यमेतद्ब्रवीमि ते ॥ २ ॥

अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥ ३ ॥

अस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे ।
सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यतः ॥ ४ ॥

सीता श्रुत्वाऽभियानं मे आशामेष्यति जीविते ।
जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः ॥ ५ ॥

उत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ ६ ॥

निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च ।
निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ ७ ॥

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम ।
विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ ८ ॥

ततो वानरराजेन लक्ष्मणेन च पूजितः ।
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ ९ ॥

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् ।
वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ १० ॥

फलमूलवता नील शीतकाननवारिणा ।
पथा मधुमता चाशु सेनां सेनापते नय ॥ ११ ॥

दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् ।
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ १२ ॥

निम्नेषु वनदुर्गेषु वनेषु च वनौकसः । [गिरि]
अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ १३ ॥

यच्च फल्गु बलं किञ्चित्तदत्रैवोपयुज्यताम् ।
एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुध्यताम् ॥ १४ ॥

सागरौघनिभं भीममग्रानीकं महाबलाः ।
कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ १५ ॥

गजश्च गिरिसङ्काशो गवयश्च महाबलः ।
गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ १६ ॥

यातु वानरवाहिन्या वानरः प्लवतां वरः ।
पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १७ ॥

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ १८ ॥

यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ।
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ १९ ॥

अङ्गदेनैष सम्यातु लक्ष्मणश्चान्तकोपमः ।
सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ २० ॥

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ २१ ॥

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
व्यादिदेश महावीर्यान् वानरान् वानरर्षभः ॥ २२ ॥

ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः ।
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ २३ ॥

ततो वानरराजेन लक्ष्मणेन च पूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ २४ ॥

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ २५ ॥

तं यान्तमनुयाति स्म महती हरिवाहिनी ।
दृप्ताः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥ २६ ॥ [हृष्टाः]

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥ २७ ॥

भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ।
उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ॥ २८ ॥

अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च ।
पततश्चाक्षिपन्त्यन्ये पातयन्त्यपरे परान् ॥ २९ ॥

रावणो नो निहन्तव्यः सर्वे च रजनीचराः ।
इति गर्जन्ति हरयो राघवस्य समीपतः ॥ ३० ॥

पुरस्तादृषभो वीरो नीलः कुमुद एव च ।
पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ ३१ ॥

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ।
बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणाः ॥ ३२ ॥

हरिः शतवलिर्वीरः कोटीभिर्दशभिर्वृतः ।
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ ३३ ॥

कोटीशतपरीवारः केसरी पनसो गजः ।
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ ३४ ॥

सुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ ।
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ ३५ ॥

तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः ।
सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ ३६ ॥

दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः ।
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ ३७ ॥

एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः ।
अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ॥ ३८ ॥

सरांसि च सुफुल्लानि तटाकानि वनानि च ।
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥ ३९ ॥

वर्जयन्नगराभ्याशांस्तथा जनपदानपि ।
सागरौघनिभं भीमं तद्वानरबलं महत् ॥ ४० ॥

उत्ससर्प महाघोषं भीमघोष इवार्णवः ।
तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ॥ ४१ ॥

तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ।
कपिभ्यामुह्यमानौ तौ शुशुभाते नरोत्तमौ ॥ ४२ ॥

महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ।
ततो वानरराजेन लक्ष्मणेन च पूजितः ॥ ४३ ॥

जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।
तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ॥ ४४ ॥

उवाच परिपूर्णार्थः स्मृतिमान् प्रतिभानवान् ।
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ॥ ४५ ॥

समृद्धार्थः समृद्धार्थामयोध्यां प्रति यास्यसि ।
महान्ति च निमित्तानि दिवि भूमौ च राघव ॥ ४६ ॥

शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ।
अनुवाति शुभो वायुः सेनां मृदुहितः सुखः ॥ ४७ ॥

पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ।
प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ॥ ४८ ॥

उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ।
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ॥ ४९ ॥

अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ।
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः ॥ ५० ॥

पितामहवरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ।
विमले च प्रकाशेते विशाखे निरुपद्रवे ॥ ५१ ॥

नक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम् ।
नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते ॥ ५२ ॥

मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ।
सरं चैतद्विनाशाय राक्षसानामुपस्थितम् ॥ ५३ ॥

काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ।
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च ॥ ५४ ॥

प्रवान्त्यभ्यधिकं गन्धान् यथर्तुकुसुमा द्रुमाः ।
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ॥ ५५ ॥

देवानामिव सैन्यानि सङ्ग्रामे तारकामये ।
एवमार्य समीक्ष्यैतान् प्रीतो भवितुमर्हसि ॥ ५६ ॥

इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ।
अथावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ ५७ ॥

ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता ।
कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः ॥ ५८ ॥

भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ।
सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ॥ ५९ ॥

छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः ।
उत्तरन्त्यां च सेनायां सन्ततं बहुयोजनम् ॥ ६० ॥

नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ।
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् ॥ ६१ ॥

समान् भूमिप्रदेशांश्च वनानि फलवन्ति च ।
मध्येन च समन्ताच्च तिर्यक्चाधश्च साऽविशत् ॥ ६२ ॥

समावृत्य महीं कृत्स्नां जगाम महती चमूः ।
ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः ॥ ६३ ॥

हरयो राघवस्यार्थे समारोपितविक्रमाः ।
हर्षवीर्यबलोद्रेकान् दर्शयन्तः परस्परम् ॥ ६४ ॥

यौवनोत्सेकजान् दर्पान् विविधांश्चक्रुरध्वनि ।
तत्र केचिद्द्रुतं जग्मुरुपेतुश्च तथाऽपरे ॥ ६५ ॥

केचित्किलकिलां चक्रुर्वानरा वनगोचराः ।
प्रास्फोटयंश्च पुच्छानि सन्निजघ्नुः पदान्यपि ॥ ६६ ॥

भुजान्विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे ।
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ॥ ६७ ॥

महानादान्विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे ।
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ॥ ६८ ॥

जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ।
शतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः ॥ ६९ ॥

वानराणां तु घोराणां श्रीमत्परिवृता मही ।
सा स्म याति दिवारात्रं महती हरिवाहिनी ॥ ७० ॥

हृष्टा प्रमुदिता सेना सुग्रीवेणाभिरक्षिता ।
वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः ॥ ७१ ॥

प्रमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ।
ततः पादपसम्बाधं नानामृगसमायुतम् ॥ ७२ ॥

सह्यपर्वतमासेदुर्मलयं च महीधरम् ।
काननानि विचित्राणि नदीप्रस्रवणानि च ॥ ७३ ॥

पश्यन्नतिययौ रामः सह्यस्य मलयस्य च ।
वकुलांस्तिलकांश्चूतानशोकान्सिन्धुवारकान् ॥ ७४ ॥ [चम्पकान्]

करवीरांश्च तिमिशान् भञ्जन्ति स्म प्लवङ्गमाः ।
अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान् ॥ ७५ ॥

जम्बूकामलकान्नीपान्भजन्ति स्म प्लवङ्गमाः ।
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ॥ ७६ ॥

वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ।
मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः ॥ ७७ ॥

षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ।
अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ ७८ ॥

धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्‍टितः ।
सुमहद्वानरानीकं छादयामास सर्वतः ॥ ७९ ॥

गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ।
केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः ॥ ८० ॥

माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ।
चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ॥ ८१ ॥ [प्रियकाः]

स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ।
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ ८२ ॥

मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा ।
धवाः शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥ ८३ ॥

हिन्तालास्तिमिशाश्चैव चूर्णका नीपकास्तथा ।
नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ॥ ८४ ॥

प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः ।
वाप्यस्तस्मिन् गिरौ शीताः पल्वलानि तथैव च ॥ ८५ ॥

चक्रवाकानुचरिताः कारण्डवनिषेविताः ।
प्लवैः क्रौञ्चैश्च सङ्कीर्णा वराहमृगसेविताः ॥ ८६ ॥

ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः ।
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥ ८७ ॥

पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा ।
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥ ८८ ॥

तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ।
स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ॥ ८९ ॥

अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ।
फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ ९० ॥

बुभुजुर्वानरास्तत्र पादपानां मदोत्कटाः ।
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥ ९१ ॥

ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ।
पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ॥ ९२ ॥

विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः ।
वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः ॥ ९३ ॥

अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे ।
बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपैः ॥ ९४ ॥

यथा कमलकेदारैः पक्वैरिव वसुन्धरा ।
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः ॥ ९५ ॥

अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ।
ततः शिखरमारुह्य रामो दशरथात्मजः ॥ ९६ ॥

कूर्ममीनसमाकीर्णमपश्यत्सलिलाकरम् ।
ते सह्यं समतिक्रम्य मलयं च महागिरिम् ॥ ९७ ॥

आसेदुरानुपूर्व्येण समुद्रं भीमनिस्वनम् ।
अवरुह्य जगामाशु वेलावनमनुत्तमम् ॥ ९८ ॥

रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ।
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः ॥ ९९ ॥

वेलामासाद्य विपुलां रामो वचनमब्रवीत् ।
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् ॥ १०० ॥

इहेदानीं विचिन्ता सा या नः पूर्वं समुत्थिता ।
अतः परमतीरोऽयं सागरः सरितां पतिः ॥ १०१ ॥

न चायमनुपायेन शक्यस्तरितुमर्णवः ।
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति ॥ १०२ ॥

यथेदं वानरबलं परं पारमवाप्नुयात् ।
इतीव स महाबाहुः सीताहरणकर्शितः ॥ १०३ ॥

रामः सागरमासाद्य वासमाज्ञापयत्तदा ।
सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव ॥ १०४ ॥

सम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने ।
स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ॥ १०५ ॥

गच्छन्तु वानराः शूराः ज्ञेयं छन्नं भयं च नः । [बलं]
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ॥ १०६ ॥

सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ।
विरराज समीपस्थं सागरस्य च तद्बलम् ॥ १०७ ॥

मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ।
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः ॥ १०८ ॥

विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ।
तेषां निविशमानानां सैन्यसन्नाहनिस्वनः ॥ १०९ ॥

अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ।
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ॥ ११० ॥

त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ।
सा महार्णवमासाद्य हृष्टा वानरवाहिनी ॥ १११ ॥

वायुवेगसमाधूतं पश्यमाना महार्णवम् ।
दूरपारमसम्बाधं रक्षोगणनिषेवितम् ॥ ११२ ॥

पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ।
चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ॥ ११३ ॥

हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ।
चन्द्रोदयसमुद्धूतं प्रतिचन्द्रसमाकुलम् ॥ ११४ ॥

पिनष्टीव तरङ्गाग्रैरर्णवः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ ११५ ॥

चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ।
दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम् ॥ ११६ ॥

अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् ।
सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम् ॥ ११७ ॥

मकरैर्नागभोगैश्च विगाढा वातलोलिताः ।
उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ ११८ ॥

अग्निचूर्णमिवाविद्धं भास्वराम्बु महोरगम् ।
सुरारिविषयं घोरं पातालविषमं सदा ॥ ११९ ॥

सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् ।
सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ १२० ॥

सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोम्भसा ।
तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥ १२१ ॥

समुत्पतितमेघस्य वीचिमालाकुलस्य च ।
विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ॥ १२२ ॥

अन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिःस्वनाः ।
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥ १२३ ॥

रत्नौघजलसन्नादं विषक्तमिव वायुना ।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ १२४ ॥

ददृशुस्ते महोत्साहा वाताहतजलाशयम् ।
अनिलोद्धूतमाकाशे प्रवल्गन्तमिवोर्मिभिः ॥ १२५ ॥

ततो विस्मयमापन्ना ददृशुर्हरयस्तदा ।
भ्रान्तोर्मिजलसन्नादं प्रलोलमिव सागरम् ॥ १२६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्थः सर्गः ॥ ४ ॥

युद्धकाण्ड पञ्चमः सर्गः (५)>>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed