Yuddha Kanda Sarga 25 – युद्धकाण्ड पञ्चविंशः सर्गः (२५)


॥ शुकसारणप्रेषणादिकम् ॥

सबले सागरं तीर्णे रामे दशरथात्मजे ।
अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ १ ॥

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् ।
अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥ २ ॥

सागरे सेतुबन्धं तु न श्रद्दध्यां कथञ्चन ।
अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् ॥ ३ ॥

भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ ।
परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ॥ ४ ॥

मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मतः ।
ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ॥ ५ ॥

स च सेतुर्यथा बद्धः सागरे सलिलार्णवे ।
निवेशं च यथा तेषां वानराणां महात्मनाम् ॥ ६ ॥

रामस्य व्यवसायं च वीर्यं प्रहरणानि च ।
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः ॥ ७ ॥

कश्च सेनापतिस्तेषां वानराणां महौजसाम् ।
एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ॥ ८ ॥

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ।
हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ॥ ९ ॥

ततस्तद्वानरं सैन्यमचिन्त्यं रोमहर्षणम् ।
सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ १० ॥

संस्थितं पर्वताग्रेषु निर्झरेषु गुहासु च । [निर्दरेषु]
समुद्रस्य च तीरेषु वनेषूपवनेषु च ॥ ११ ॥

तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ।
निविष्टं निविशच्चैव भीमनादं महाबलम् ॥ १२ ॥

तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ।
तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः ॥ १३ ॥

आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ।
तस्यैमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ ॥ १४ ॥

लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जय ।
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा ॥ १५ ॥

कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ।
आवामिहागतौ सौम्य रावणप्रहितावुभौ ॥ १६ ॥

परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ।
तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः ॥ १७ ॥

अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ।
यदि दृष्टं बलं कृत्स्नं वयं वा सुपरीक्षिताः ॥ १८ ॥

यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ।
अथ किञ्चिददृष्टं वा भूयस्तद्द्रष्टुमर्हथः ॥ १९ ॥

विभीषणो वा कार्त्स्न्येन भूयः सन्दर्शयिष्यति ।
न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति ॥ २० ॥

न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमर्हथः ।
प्रच्छन्नौ च विमुञ्चैतौ चारौ रात्रिञ्चरावुभौ ॥ २१ ॥

शत्रुपक्षस्य सततं विभीषण विकर्षणौ ।
प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः ॥ २२ ॥

वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ।
यद्बलं च समाश्रित्य सीतां मे हृतवानसि ॥ २३ ॥

तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ।
श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम् ॥ २४ ॥

रक्षसां च बलं पश्य शरैर्विध्वंसितं मया ।
क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण ॥ २५ ॥

श्वः काल्ये वज्रवान्वज्रं दानवेष्विव वासवः ।
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ॥ २६ ॥

जयेति प्रतिनन्द्यैतौ राघवं धर्मवत्सलम् ।
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् ॥ २७ ॥

विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर ।
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा ॥ २८ ॥

एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ।
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥ २९ ॥

रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः ।
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ॥ ३० ॥

एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ।
उत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः ॥ ३१ ॥

यादृशं तस्य रामस्य रूपं प्रहरणानि च ।
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः ॥ ३२ ॥

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।
बभूव दुर्धर्षतरा सेन्द्रैरपि सुरासुरैः ॥ ३३ ॥

[* अधिकश्लोकाः –
व्यक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः ।
शतयोजनमायामस्तीर्णा सेना च सागरम् ॥
निविष्टो दक्षिणेतीरे रामः स च नदीपतेः ।
तीर्णस्य तरमाणस्य बलस्यान्तो न विद्यते ॥
*]

प्रहृष्टरूपा ध्वजिनी वनौकसां
महात्मनां सम्प्रति योद्धुमिच्छताम् ।
अलं विरोधेन शमो विधीयतां
प्रदीयतां दाशरथाय मैथिली ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥

युद्धकाण्ड षड्विंशः सर्गः (२६) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed