Yuddha Kanda Sarga 103 – युद्धकाण्ड त्र्युत्तरशततमः सर्गः (१०३)

॥ ऐन्द्ररथकेतुपातनम् ॥

लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।
सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् ॥ १ ॥

रावणाय शरान्घोरान्विससर्ज चमूमुखे ।
अथान्यं रथमारुह्य रावणो राक्षसाधिपः ॥ २ ॥

अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ॥ ३ ॥

आजघान महाघोरैर्धाराभिरिव तोयदः ।
दीप्तपावकसङ्काशैः शरैः काञ्चनभूषणैः ॥ ४ ॥

निर्बिभेद रणे रामो दशग्रीवं समाहितम् ।
भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ॥ ५ ॥

न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ।
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ॥ ६ ॥

तरुणादित्यसङ्काशो वैडूर्यमयकूबरः ।
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ॥ ७ ॥

हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ।
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ॥ ८ ॥

देवराजेन सन्दिष्टो रथमारुह्य मातलिः ।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ ९ ॥

अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ १० ॥

सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।
दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ॥ ११ ॥

इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् ।
शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ॥ १२ ॥

आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।
मया सारथिना राजन्महेन्द्र इव दानवान् ॥ १३ ॥

इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च ।
आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥ १४ ॥

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाबाहो रावणस्य च रक्षसः ॥ १५ ॥

स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ १६ ॥

अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः ।
ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ १७ ॥

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ १८ ॥

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ १९ ॥

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।
दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥ २० ॥

तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे ।
अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् ॥ २१ ॥

ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ २२ ॥

ते तान्सर्वान् शरान्जघ्नुः सर्परूपान्महाजवान् ।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ २३ ॥

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।
अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २४ ॥

ततः शरसहस्रेण राममक्लिष्टकारिणम् ।
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ २५ ॥

चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः ।
पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ॥ २६ ॥

ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः ।
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ॥ २७ ॥

विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ॥ २८ ॥

व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ॥ २९ ॥

प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥ ३० ॥

सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ ३१ ॥

शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ॥ ३२ ॥

कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।
आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ ३३ ॥

दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।
अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३४ ॥

निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।
नाशक्नोदभिसन्धातुं सायकान्रणमूर्धनि ॥ ३५ ॥

स कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित्संरक्तलोचनः ।
जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥

युद्धकाण्ड चतुरुत्तरशततमः सर्गः (१०४) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: "శ్రీ శివ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: