Yuddha Kanda Sarga 103 – युद्धकाण्ड त्र्युत्तरशततमः सर्गः (१०३)



॥ ऐन्द्ररथकेतुपातनम् ॥

लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।
सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् ॥ १ ॥

रावणाय शरान्घोरान्विससर्ज चमूमुखे ।
अथान्यं रथमारुह्य रावणो राक्षसाधिपः ॥ २ ॥

अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ॥ ३ ॥

आजघान महाघोरैर्धाराभिरिव तोयदः ।
दीप्तपावकसङ्काशैः शरैः काञ्चनभूषणैः ॥ ४ ॥

निर्बिभेद रणे रामो दशग्रीवं समाहितम् ।
भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ॥ ५ ॥

न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ।
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ॥ ६ ॥

तरुणादित्यसङ्काशो वैडूर्यमयकूबरः ।
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ॥ ७ ॥

हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ।
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ॥ ८ ॥

देवराजेन सन्दिष्टो रथमारुह्य मातलिः ।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ ९ ॥

अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ १० ॥

सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।
दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ॥ ११ ॥

इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् ।
शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ॥ १२ ॥

आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।
मया सारथिना राजन्महेन्द्र इव दानवान् ॥ १३ ॥

इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च ।
आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥ १४ ॥

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाबाहो रावणस्य च रक्षसः ॥ १५ ॥

स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ १६ ॥

अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः ।
ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ १७ ॥

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ १८ ॥

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ १९ ॥

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।
दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥ २० ॥

तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे ।
अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् ॥ २१ ॥

ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ २२ ॥

ते तान्सर्वान् शरान्जघ्नुः सर्परूपान्महाजवान् ।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ २३ ॥

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।
अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २४ ॥

ततः शरसहस्रेण राममक्लिष्टकारिणम् ।
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ २५ ॥

चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः ।
पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ॥ २६ ॥

ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः ।
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ॥ २७ ॥

विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ॥ २८ ॥

व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ॥ २९ ॥

प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥ ३० ॥

सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ ३१ ॥

शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ॥ ३२ ॥

कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।
आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ ३३ ॥

दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।
अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३४ ॥

निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।
नाशक्नोदभिसन्धातुं सायकान्रणमूर्धनि ॥ ३५ ॥

स कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित्संरक्तलोचनः ।
जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥

युद्धकाण्ड चतुरुत्तरशततमः सर्गः (१०४) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed